________________
गाथा-४-७
१६-प्रायश्चित्तविधि-पञ्चाशकम् कस्य पुनरिदं भावतः प्रायश्चित्तं सम्भवतीत्याह - भव्वस्साणारुइणो, संवेगपरस्स वणियं एयं । उवउत्तस्स जहत्थं, सेसस्स उ दव्वतो णवरं ॥७४८॥ १६/४
भव्यस्यासन्नमोक्षस्य, आज्ञारुचेरागमबहुमानिनः, सम्यग्दृष्टेः संवेगपरस्य चारित्रिणः संविग्नस्य, वर्णित कथितम् एतत्प्रायश्चित्तम् उपयुक्तस्य सर्वापराधस्थानेषु दत्तावधानस्य, यथार्थं सत्यं स्वकार्यकारि, शेषस्य त्वेतद्गुणविकलस्य, द्रव्यत एव, नवरं केवलम्, न पुनः स्वार्थविधायि ॥४॥
इहे(है)व भावार्थमाह - सत्थत्थबाहणाओ, पायमिणं तेण चेव कीरंतं । एयं चिय संजायति, वियाणियव्वं बुहजणेणं ॥७४९॥ १६/५
शास्त्रार्थबाधनात् प्राणातिपातादिरूपात, प्रायमिदं प्रायश्चित्तम्, न पुनः प्राणातिपाताद् शास्त्रबाधया तत्सम्भवः, शास्त्रार्थाराधनस्यैव गरीयस्त्वात् । सत्यपि कल्पविहिते प्राणातिपातादौ तदसम्भवात्। तेन चैव शास्त्रार्थबाधनेनैव क्रियमाणं क्रियारूपं प्रायश्चित्तम्। एतदेव प्रायश्चित्तमेव पापरूपमेव सञ्जायते, शास्त्रप्रतिषिद्धविधीयमानप्राणातिपातादिवत् । विज्ञातव्यं निश्चेतव्यम् । गंभीरसारया प्रज्ञया बुधजनेन तत्त्वज्ञसमवायेन ॥५॥
एतदेव व्यक्तीकर्तुमाह - दोसस्स जं णिमित्तं, होति तगो तस्स सेवणाए उ । न उ तक्खउ त्ति पयडं, लोगंमि वि हंदि एयं ति ॥७५०॥ १६/६
दोषस्यापराधस्य यन्निमित्तं यदवन्ध्यकारणम्, भवत्युत्पद्यते तको दोषः तस्य दोषनिमित्तस्य सेवनया तु सेवनयैव न तु नैव तत्क्षय इति दोषक्षयः । प्रकटं प्रसिद्धम् । लोकेऽपि जनसमुदायेऽपि, हन्तेत्यामन्त्रणे । एतदिति कार्यकारणरूपम् । अयमत्र वाक्यार्थ:-अधिकारिण एव शास्त्रार्थाबाधया प्रवृत्तस्य दोषविशुद्धिहेतु प्रायश्चित्तं । यस्तु शास्त्रार्थोल्लङ्घनेन दोषविशुद्धये प्रायश्चित्तकर्मणि प्रवर्तते तस्य प्रायश्चित्तासेवनक्रियापरस्यापि न दोषविशुद्धिः । दोषमूलस्य शास्त्रार्थबाधनस्य तदवन्ध्यहेतोस्तदवस्थत्वात्। तस्माद्दोषविशुद्धिमिच्छता श्रेयोऽर्थिना शास्त्रार्थाराधन एव प्रयत्नः करणीयः ॥६॥
एतच्च प्रायश्चित्तं यत्समानोक्तं पूर्वसूरिभिस्तत्सम्बन्धप्रदर्शनायेदमाह - दव्ववणाहरणेणं, जोजितमेतं विदूहि समयंमि । भाववणतिगिच्छाए, सम्मं ति जतो इमं भणितं ॥७५१॥ १६/७