________________
॥ षोडशं प्रायश्चित्तविधि-पञ्चाशकम् ॥
आलोचनाविधानानन्तरं साधो क्वचिदपराधे प्रायश्चित्तसम्भवात्तभेदनिरुपणायाह - नमिण वद्धमाणं, पायच्छित्तं समासतो वोच्छं । आलोयणादि दसहा, गुरूवएसाणुसारेणं ॥७४५॥ १६/१
नत्वा मनो-वाक्-कायप्रह्वतया प्रणम्य, वर्धमानं सदैव केवलज्ञानादिभिः, स्वगुणैर्नहीय मानमवस्थितत्वेऽपि तेषां | ___ माङ्गलिकत्वादेवमभिधानमायुषावर्ध[क]श्चेति यथा, [वद्धमाणं ति - गर्भगतेन भगवता ज्ञातकुलं विशेषेण धनेन वर्धितं तेन तस्य नाम कृतं वर्धमान इति। - आव. नियुक्ति गाथा १०९१ हारिभद्रीयवृत्तिः ।] प्रायःचित्तशुद्धिस्मादिति प्रायश्चित्तम् । 'चिति सज्ञानशुद्धयोः' [ ]इति पाठात् । भावमूलान्ततः शुद्ध्यवाप्तेर्नान्यत इति प्रायोविशेषणम् । समासतः सङ्केपेण वचनविस्तरमुत्सृज्य, मूलागमे तस्य बहुधाभिधानात्, वक्ष्ये प्रतिपादयिष्यामि, आलोचनादि वक्ष्यमाणं दशधा दशविधं गुरूपदेशानुसारेण स्वगुरूपदेशानुवृत्त्या ॥१॥ प्रायश्चित्तं दशधोक्तं तदाह - आलोयण पडिक्कमणे, मीस 'विवेगे तहा 'विउस्सग्गे । तव "छेय मूल अणवट्ठया य पारंचिए चेव ॥७४६॥ १६/२
आलोचनमालोचनाहम्, प्रतिक्रमणं प्रतिक्रमणार्हम, मि तदुभयारीम, विवेकः परित्यागः तथा व्युत्सर्गः कायोत्सर्गः तपो बाह्याभ्यन्तरभेदम् । छेदः पर्यायच्छेदः । पञ्चकादिक्रमेण मूलं सर्वपर्यायोच्छेदः अनवस्थाप्यता च व्रतेषु, अकृततपःकर्मणः, पारञ्चिकं चैव, लिङ्गक्षेत्रकालतपोभेदेन पर्यन्तवर्तिप्रायश्चित्तपारगमनात्, न ततः परमन्यदस्ति ॥२॥
प्रायश्चित्तनिरुक्ताभिधानायाह - पावं छिंदति जम्हा, पायच्छित्तं ति भण्णए तेण । पाएण वा वि चित्तं, सोहयती तेण पच्छित्तं ॥७४७॥ १६/३
पापमशुभं छिनत्ति कृन्तति यस्मात् पापच्छिदिति भण्यते निगद्यते तेन तस्माद्धेतोः प्रायेण वापि चित्त शोधयति क्रियां च, तेन प्रायश्चित्तमित्युच्यते ॥३।।