________________
२०३
गाथा-४८-५० १५-आलोचनाविधि-पञ्चाशकम् वक्ति, तत् कार्यमकार्यं वा तथा बालवद् आलोचयेत् कथयेत् मायामदविप्रमुक्तश्च मदस्थानविरहित एव ॥४७॥
सम्यगालोचनादाने किं पुनर्लिङ्गम् ? इत्याह - आलोयणासुदाणे, लिंगमिणं बिंति मुणियसमयत्था । पच्छित्तकरणमुचितं, अकरणयं चेव दोसाणं ॥७४२॥ १५/४८
आलोचनाया सुदानं सम्यक्करणं तस्मिन्, लिङ्गं चिह्नम् इदं वक्ष्यमाणं ब्रुवन्ति । मुणितसमयार्थाः ज्ञातागमार्थाः विद्वांसः [मुणत् प्रतिज्ञाने हैमधातुपाठ १३६५ इति धातोरपि 'मुणित' शब्दसिद्धिः] प्रायश्चित्तकरणं प्रायश्चित्तासेवनम् उचितं योग्यम्, गुरूपदेशानुसारि, अकरणं चैवनासेवनं, चैवापुनःप्रवृत्त्या, दोषाणामपराधानाम् ॥४८॥
कथं पुनरिदमालोचनाविधानं प्रस्तुतं सम्यग्भवतीत्याह - इय भावपहाणाणं, आणाए सुट्ठियाण होति इमं । गुणठाणसुद्धिजणगं, सेसं तु विवज्जयफलं ति ॥७४३॥ १५/४९
इत्येवमुक्तनीत्या भावप्रधानानां भावबहुमानिनाम् आज्ञायां क्रियोपदेशरूपायां सुस्थितानां प्रतिष्ठितानां च, भवतीदमालोचनाविधानम् । गुणस्थानशुद्धिजनकं सर्वविरत्यन्तः पातिप्रमत्ताप्रमत्ता[दि]गुणस्थानविशुद्धिहेतुः, शेषतु उक्तलक्षणविमुक्तम्, पुरुषाऽयोग्यतया, विपर्ययफलमिति गुणस्थानादिविशुद्धिहेतुः, नागमविपरीताभ्यां भाव-क्रियाभ्यां तद् गुणस्थानं विशुद्धिमनुभवति, तस्मादागमानुसार्येवेदं प्रशस्यते ॥४९।।
प्रस्तुतार्थमुपेत्यैवोपदेशरूपमाह - लभ्रूण माणुसत्तं, दुलहं चईऊण लोगसण्णाओ। लोगुत्तमसण्णाए, अविरहियं होति जतितव्वं ॥७४४॥ १५/५०
लब्ध्वाऽवाप्य, मानुषत्व मनुजत्वं दुर्लभं समुद्रपतितरत्नलाभकल्पं त्यक्त्वा विहाय, लोकसज्ञा भगवद्वचनप्रतिकूलवर्तिनी, तथाविधभवाभिनन्दिसत्त्वक्रियाप्रतिरूपा लोकाभिसन्धिप्रायमात्रव्यवस्थिता । तया लोकोत्तमसञ्जया भगवद्वचनोपदेशरूपया गुणदोषनिरूपणगर्भया, निरस्तप्रज्ञामलया, अविरहितं सन्ततं भवति ।यतितव्यं लोकसञ्जापरित्यागेन लोकोत्तमसञ्जयैव, प्रयत्नः करणीयो, न यथाकथञ्चिदालोचनाविधाने प्रवर्तितव्यमिति हृदयम् ॥५०॥
॥पञ्चदशं आलोचनाविधि-पञ्चाशकं समाप्तम् ॥