________________
२०२ अवगाढा: ||४२||
१५- आलोचनाविधि-पञ्चाशकम्
गाथा- ४३-४७
उद्धरियसव्वसल्ला, तित्थगराणाऍ सुत्थिया जीवा । भवसयकयाइँ खविउं, पावाइँ गया सिवं थामं ॥ ७३७॥ १५/४३
उद्धृतसर्वशल्या आकृष्टसूक्ष्मेतरभावशल्या:, तीर्थकराज्ञया तीर्थकरोपदेशेन, सुस्थिताः सुखिनो गुणस्थिता वा जीवाः, भवशतकृतानि मनुष्यतिर्यक्प्रभृतीनि भवशतनिर्वर्तितानि, क्षपयित्वा प्रक्षपय्य, पापानि कर्माणि, गताः प्राप्ताः, शिवं निरुपद्रवं मुक्त्याख्यं स्थानम् ॥४३॥
सल्लुद्धरणं च इमं, तिलोगबंधूहिं दंसियं सम्मं । अवितहमारोग्गफलं, धण्णोऽहं जेणिमं णायं ॥ ७३८ ॥ १५/४४
शल्योद्धरणं चेदमागमप्रत्यक्षम्, त्रिलोकबन्धुभिः सर्वजीवबान्धवैरर्हद्भिः देशितं कथितम्, सम्यगविपरीतम्, अवितथं सत्यम्, आरोग्यफलं भावारोग्यफलम्, धन्यः पुण्यभाग् अहं येन मया इदं शल्योद्धरणं ज्ञातं विदितं स्वरूपतः ॥४४॥
ता उद्धरेमि सम्मं, एवं एयस्स नाणरासिस्स ।
आवेदिउं असेसं, अणिदाणो दारुणविवागं ॥७३९॥ १५/४५
तत्तस्मात् उद्धराम्यपनयामि, सम्यङ्न्यायेन, एतत् भावशल्यम्, एतस्य गुरोः ज्ञानराशेर्ज्ञाननिकरस्य आवेद्य कथयित्वा, अशेषं सकलम्, अनिदानो निदानरहितः, दारुणविपाकं दारुणफलम् ॥४५॥
इय संवेगं काउं, मरुगाहरणादिएहिं चिधेहिं । दढमपुणकरणजुत्तो, सामायारिं पउंजेज्जा ॥ ७४०॥ १५/४६
इत्येवमुक्तनीत्या, संवेगं श्रेयः प्रत्यवायोद्धारेण कृत्वा स्वयमेव विधाय, मरुकोदाहरणादिभिश्चिनैः समयप्रसिद्धैर्मत्स्याद्याहारप्रवृत्तिप्रतिपादकैरन्त्यावस्थायां सद्भावालोचनपरैः, दृढमत्यर्थम्, । अपुनःकरणयुक्तः सावद्यप्रतिषेधनियमाऽन्वितः, सामाचारी शिष्टाचरितक्रियारुपां प्रयुञ्जीत कुर्वीत ॥४६॥
कथं पुनर्भावालोचनां विदध्यादित्याह -
जह बालो जंपंतो, कज्जमकज्जं व उज्जुयं भणति ।
तं तह आलोइज्जा, मायामयविप्पमुक्को उ ॥७४१॥ १५/४७
यथा बालः शिशुः, जल्पन् भाषमाणः, कार्यमकार्यं वा स्वरूपतः ऋजुकमवकं भणति