________________
२०१
गाथा-३९-४२ १५-आलोचनाविधि-पञ्चाशकम् च । सम्यक्त्वचारित्रावाप्तावपार्धपुद्गलपरावर्तान्तःपात्यनन्तसंसारभाक्त्वं च ॥३८॥
आलोयणं अदाउं, सइ अण्णम्मि वि तहऽप्पणो दाउं । जेवि हु करेंति सोहिं, तेऽवि ससल्ला विणिट्ठिा ॥७३३॥ १५/३९
आलोचनामात्मदोषप्रकाशनाम् अदत्त्वा गुरुभ्य इति गम्यते, सति विद्यमाने अन्यस्मिन् [तस्मात् अपरस्मिन् अटी.]अप्यागमोक्तगीतार्थे, तथाऽऽत्मन एवालोचनां, दत्त्वा लज्जागारवबहुश्रुतमदादिभिः, वितथात्मन एव वा येऽप्यविवेकिनो, हुर्वाक्यालङ्कारे, कुर्वन्ति विदधति शुद्धि प्रायश्चित्तम्, तेऽपि कृतशुद्धयोऽपि सशल्या विनिर्दिष्टा, न तु निःशल्या: 'निःशल्यस्य च व्रतित्वम्' इत्यभ्युपगमः ॥३९॥ [निःशल्यो व्रती-तत्त्वार्थ.सूत्र-अ.७.सूत्र.१३]
किरियण्णुणा वि सम्मं पि रोहिओ जह वणो ससल्लो उ । होइ अपत्थो एवं, अवराहवणोऽवि विण्णेओ ॥७३४॥ १५/४०
क्रियां चिकित्सां जानातीति क्रियाज्ञस्तेन क्रियाज्ञेनापि सम्यक चिकित्साशास्त्रविशारदेनापि पुंसा, सम्यगपि निराश्रवत्वमङ्गीकृत्य रोहितो यथा व्रणः, सशल्यस्तु ['तु' शब्दोऽवधारणे भिन्नक्रमश्च - अटी.] सशल्य एव सन्, भवत्यपथ्यो हि तावताऽन्तःशल्यत्वात्, एवं तथा अपराधवणस्तु, विज्ञेयो भावशल्यानुद्धरणेन, इह दुर्लभबोधित्वप्रतिपादकमेकं सूत्रम्, द्वितीयं तु सशल्यत्वप्रतिपादकम्, तृतीयं तु सशल्यव्रणरोहणप्रतिपादनपरमेवं प्रायाण्यन्यान्यपि सूत्राण्यवसेयानि ॥४०॥
आलोचनाविषयक्षेत्रकालाभि[धि]त्सयाऽह - सल्लुद्धरणनिमित्तं, गीयस्सन्नेसणा उ उक्कोसा । जोयणसयाई सत्त उ, बारस वरिसाइं कायव्वा ॥७३५॥ १५/४१
शल्योद्धरणनिमित्तं भावशल्योद्धारार्थं, गीतस्य गीतार्थस्य अन्वेषणाऽनुपर्येषणा तु, उत्कृष्टा योजनशतानि सप्त तु सप्तैव क्षेत्रापेक्षया, द्वादश वर्षाणि कर्तव्या कालापेक्षया, दुर्लभगीतार्थं कालं समासृत्य ॥४१॥
स्वयं पुनरालोचनाकारी साधुः कथं संवेगं कृत्वालोचयतीत्याह - मरिउं ससल्लमरणं, संसाराडविमहाकडिल्लम्मि । सुचिरं भमंति जीवा, अणोरपारंमि ओइण्णा ॥७३६॥ १५/४२
मृत्वासेव्य, सशल्यमरणम् क? संसाराटवीमहाकडिल्ले भवाटवीमहागहने, सुचिरं प्रभृतकालं भ्रमन्ति पर्यटन्ति, जीवाः प्राणिनः, अनर्वापारेऽर्वाग्भागपारवजिते, अवतीर्णा