________________
२००
१५-आलोचनाविधि-पञ्चाशकम् गाथा-३५-३८ जीवादिपदार्थानाम् आभोगाऽनाभोगादिसेविताः। परिज्ञाना-ऽपरिज्ञान-प्रमाद-रागादिसेविताः, तथा च ये केचन ओघेन सामान्येन ॥३४॥ ___ कथं पुनर्गुरुणा प्रयोजकव्यापारमनुभवता ते अतिचारा आलोचनाविषयीकर्तव्याः साधूनामित्याह -
संवेगपरं चित्तं, काऊणं तेहि तेहिं सुत्तेहिं । - सल्लाणुद्धरणविवागदंसगादीहि आलोए ॥७२९॥ १५/३५
संवेगपरं संवेगप्रधानं चित्तं मनः, कृत्वा विधाय, तैस्तैः सूत्रैरागमवचनैः, शल्यस्य भावशल्यस्य मायानिदानमिथ्यारूपस्य, अनुद्धरणविपाकदर्शकादिभिः शिष्यान् आलोचयेदतिचारान् गुरुः ॥३५॥
किं पुनर्भावशल्यम्, यदनुद्धरणे दोष इत्याह - सम्मं दुच्चरितस्सा, परसक्खिगमप्पगासणं जं तु । एयमिह भावसल्लं, पण्णत्तं वीयरागेहिं ॥७३०॥ १५/३६
सम्यग् अविपरीतं क्रियाविशेषणमेतत् । दुश्चरितस्य दुष्कृतस्य परसाक्षिकं गुरुसाक्षिकम् अप्रकाशन स्वरूपेणानालोचनम्, यत्तु यत् पुन एतदिह भावशल्यमात्मपीडाहेतुत्वात् प्रज्ञप्तं कथितं वीतरागैरर्हद्भिः ॥३६॥
कानि पुनस्तानि सूत्राणि शल्यानुद्धरणविपाकदर्शकानि यैः संवेगपरता चित्तस्यापाद्यते गुरुणेति दिङ्मात्रेण तदुपदर्शनायाह -
नवि तं सत्थं व विसं व, दुप्पउत्तो व कुणति वेतालो । जंतं व दुप्पउत्तं, सप्पो व पमादिओ कुद्धो ॥७३१॥ १५/३७ जं कुणइ भावसलं, अणुद्धितं उत्तिमट्टकालम्मि । दुल्लहबोहीयत्तं, अणंतसंसारियत्तं च ॥७३२॥ १५/३८
नापि नैव तदनर्थजातं कर्मतापन्नम्, शस्त्रं वा कर्तृहिंसाभृतम्, विषं वा मारणात्मकम् । दुष्प्रयुक्तो वा दुःसाधितो वा, वेतालः [पिशाचः, अटी.] कर्ता करोति । यन्त्रं वा शतघ्नीप्रभृति दुष्प्रयुक्तं दुर्व्यापारितम्, सर्पो वा भुजङ्गमो वा प्रमादितो अवज्ञाविषयीकृतः प्रमादितो वा [शब्दो विकल्पार्थः, अटी.] क्रुद्धः सन् ॥३७॥ ।
यत् कर्तृ [कर्ता]करोति विधत्ते भावशल्यं मिथ्यादर्शनादि, अनुद्धृतमनाकृष्टम्, जीवशरीरात् उत्तमार्थकाल पर्यन्तकाले, दुर्लभबोधिकत्वम् असुलभबोधिलाभत्वम् अनन्तसंसारिकत्वं