________________
गाथा-३१-३४ १५-आलोचनाविधि-पञ्चाशकम्
१९९ प्राणातिपातविरमणादयो निशिभक्तविरतिपर्यन्ता रात्रिभक्तविरतिपर्यवसानाः, श्रमणानां साधूनां मूलगुणा आदिगुणाः त्रिविधं त्रिविधेन ज्ञातव्याः कृतकारितानुमतिमनोवाक्कायरूपेण विज्ञेयाः ॥३०॥ पिंडविसुद्धादीया, अभिग्गहंता य उत्तरगुण त्ति । एतेसिं अइयारा, एगिदियघट्टणादीया ॥७२५॥ १५/३१
पिण्डविशुद्ध्यादिकाः पिण्डविशुद्धि-समिति-भावना-प्रतिमादयः अभिग्रहान्ताश्चोत्तरगुणा इति तत्पालनहेतवः । एतेषां मूलोत्तरगुणानाम् अतिचारा एकेन्द्रियसङ्घट्टनादिका एकेन्द्रियसङ्घट्टन-परितापनक्लमादिकाः ॥३१॥
पुढवादिघट्टणादी, पयलादी तुच्छादत्तगहणादी । गुत्तिविराहण 'कप्पट्टममत्त दियगहियभुत्तादी ॥७२६॥ १५/३२
पृथिव्यादिघट्टनादयः पृथिव्यप्तेजोवायुवनस्पति-द्वीन्द्रियादिसङ्घट्टनादयः । प्रचलादयः निद्राविशेषप्रचलादिविषयाः तुच्छं स्वल्पं यद् अदत्तं तद् ग्रहणादयः, गुप्तिविराधनयो नवब्रह्मचर्यगुप्तिविराधनप्रवृत्तयो, डिम्भरूपममत्वादयो ['कल्पार्थममता' - कल्पे वस्त्रादौ तिष्ठतीति कल्पस्थः कल्पेन वाऽर्थो यस्यासौ कल्पार्थः-शिशुः, तत्र ममता ममत्वं शय्यातरादिसम्बन्धित्वात् स्वीकरणं कल्पार्थममता। - अटी.] दिवागृहीत दिवाभुक्तादयः प्रत्येकं महाव्रतेषु रात्रिभोजनषष्ठेषु मूलगुणातिचाराः ॥३२॥ (१. कप्पट्ठतमत्त. अटी.)
[उत्तरगुणातिचाराः] - भोगो अणेसणीएऽसमियत्तं भावणाणऽभावणया । जहसत्तिं चाकरणं, पडिमाण अभिग्गहाणं च ॥७२७॥ १५/३३
भोगः परिभोगः [भोजनं - अटी.] अनेषणीयोऽनेषणीयविषयः, असमितत्वं समितिप्रतिपक्षः । भावनानामनित्यत्वादीनाम् अभावनम् । प्राकृतत्वाद् भावप्रत्ययो । यथाशक्ति च शक्त्यनुरूपम् अकरणमनासेवनम्, प्रतिमानां मासिक्यानां समयोक्तानाम् अभिग्रहाणां च दण्डकप्रमार्जनादीनां द्रव्यक्षेत्रकालभावविषयाणां चाकरणमिति वर्तते। पिण्डविशुद्ध्याद्युत्तरगुणानामेतेऽतिचाराः ॥३३॥
एते इत्थऽइयारा, असद्दहणादी य गरुय भावाणं । आभोगाणाभोगादिसेविया तह य ओहेणं ॥७२८॥ १५/३४ एतेऽत्रातिचाराः अश्रद्धानादयश्चाश्रद्धानं, विपरीतप्ररूपणादयः । गुरुका गुरवः, भावानां