SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १९८ १५-आलोचनाविधि-पञ्चाशकम् गाथा-२६-३० साम्प्रतं सामान्येन तपआचारभेदनिर्दिदिक्षया तत्स्वरूपमेवाभिधित्सुराह - बारसविहम्मि वि तवे, साभितरबाहिरे कुसलदिढे । अगिलाएँ अणाजीवी, णायव्वो सो तवायारो ॥७२०॥ १५/२६ द्वादशविधेऽपि तपसि साभ्यन्तर-बाह्ये प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-व्युत्सर्गध्याना-ऽनशनाऽवमौदर्य-वृत्तिसङ्ख्यान-रसपरित्याग-कायक्लेश-संलीनतालक्षणे, कुशलदृष्टे कुशलमतिकथिते, अग्लान्या तपसाऽपराजयेन, अनाजीव्यनाजीवको, न तदेव तप उपजीवति, ज्ञातव्यः स एवंविधस्तपाचारः तपस्तद्वतोरभेदोपचारात् ॥२६॥ वीर्याचारस्वरूपप्रतिपादनायाह - अणिगूहियबलविरिओ, परक्कमइ जो जहुत्तमाउत्तो । जुंजइ य जहत्थामं, णायव्वो वीरियायारो ॥७२१॥ १५/२७ बलं मांसशोणितोपचयसमुत्थम्, वीर्यं वीर्यान्तरायक्षयोपशमजनितं, बलं च वीर्यं च बलवीर्ये, अनिगूढऽप्रच्छादिते बल-वीर्ये येन स (अनिगूहितबल-वीर्यः) तथा, पराक्रमते समुत्सहते, यः पुरुषः, यथोक्तं यथाऽऽगमम्, आयुक्त उपयुक्तः । युङ्क्ते च प्रयुङ्क्ते च यथास्थामं यथाबलम्, धर्मव्यापारमिति गम्यते, ज्ञातव्या विज्ञेयो वीर्याचारः । आचारस्तद्वतोरभेदात् ॥२७॥ एयम्मि उ अइयारा, अकालपढणाइया णिरवसेसा । अपुणकरणुज्जएणं, संवेगाऽऽलोइयव्व त्ति ॥७२२॥ १५/२८ एतस्मिन् पञ्चविधाचारे, अतिचारा अपराधविशेषाः, अकाले पठनादिकाः, आदिग्रहणादविनया-ऽबहुमानादिपरिग्रहः । निरवशेषाः सर्वे अपुनःकरणोद्यतेन भावतोऽपुनःकरणपरिणामवता, अचिन्त्यकर्मसामर्थ्यात् त्वन्यथापि प्रवृत्तिः कदाचित् सम्भवति । संवेगात् संसारभयाद्, आलोचयितव्या इति प्रकाशनीयाः ॥२८॥ अहवा मूलगुणाणं, एते एवं तहुत्तरगुणाणं । एएसिमह सरूवं, पत्तेयं संपवक्खामि ॥७२३॥ १५/२९ अथवा मूलगुणानामेते अतिचारा एते एवं स्वरूपाः, तथोत्तरगुणानां एतेषां मूलोत्तरगुणानाम् अथ स्वरूपं स्वलक्षणं प्रत्येकं भेदेन, सम्प्रवक्ष्यामि विधास्यामि ॥२९॥ पाणातिपातविरमणमादी निसिभत्तविरइपज्जंता । समणाणं मूलगुणा, तिविहं तिविहेण णायव्वा ॥७२४॥ १५/३०
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy