________________
गाथा - २४-२५
१५ - आलोचनाविधि-पञ्चाशकम्
तप:कर्मासेवनेन, अन्यथा श्रुताऽऽशातनोपपत्तेः । यथोक्तम् -
जं केवलिणा भणियं, केवलणाणेण तत्तओ नाउं ।
तस्सऽण्णहाविहाणे, आणाभंगो महापावो ॥ [ पंचवत्थुगं गाथा - ५९० ]
तथा अनिह्नवनेऽनिह्नवविषयः, सूत्रार्थोभयस्य गुर्वनपह्नवेन । तदपलापे तदुपपत्तेः, व्यञ्जने व्यञ्जनविषयः, यथादिष्टं सूत्रादिषु तदन्यप्रक्षेपाद्यभावेन, अर्थ: अर्थविषयस्तदभिधेयान्यथात्वाऽकरणेन, तदुभये तदुभयविषयः, उभयस्मिन्नप्येककालमन्यथात्वपरिहारेण, इतरथा तदविसंवादोपपत्तेः, अष्टविधोऽष्टभेदो ज्ञानाचारः [णाणमायारो 'ज्ञानं... आचारः ज्ञानाचारः,' मकारस्यागमिकत्वात् - अटी. ] समयप्रसिद्धः ॥२३॥
सम्यग्दर्शनतद्धेतोरभेदोपचाराद्दर्शनाचारभेदानाह -
निस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठी य । उववूहथिरीकरणे, वच्छल्लपभावणे अट्ठ ॥ ७१८ ॥ १५ / २४
१९७
शङ्कितं शङ्का, ततो निर्गतो निःशङ्कितम्, काङ्क्षितम् काङ्क्षा ततो निर्गतो, निष्काङ्क्षितो भावप्रधानत्वाद्वा निर्देशस्य निःशङ्कितत्वं निष्काङ्क्षितत्वं इत्येवं ज्ञेयम् । विचिकित्सा फलं प्रति विश्रोतसिका, 'किमस्य क्लेशायासस्यामुत्र मे फलं स्यात्', इत्येवंरूपा, ततो निर्गता चित्तपरिणति निर्विचिकित्सा, अमूढदृष्टिश्च [अमूढा दृष्टि र्यस्य सः ] विशेषणसमासाङ्गीकरणे वा अमूढा चासौ दृष्टिश्चेति, उपबृंहणं प्रशस्तसद्भूतगुणोत्कीर्तनेन परिणामवृद्ध्याऽऽपादनम्, स्थिरीकरणं प्रमादपरसत्त्वानुष्ठानदर्शनाद्धर्मशैथिल्यवतः पुनरपि स्वप्रकृत्यापादनमिदं च धर्मानुरक्तमतेरवसेयम् । वात्सल्यं साधर्मिकस्नेहव्यापारदर्शनम् । स्वशरीरोपरोधेनापि तत्प्रयोजनप्रवृत्तिस्तथा चान्नपानौषधादिसम्पादनम्, विदधतो यतन्त एव यतयः, केनचित् धर्मस्थितेन शासनमालिन्यापादने कृते अकृते वा स्वगुणैरन्यदोषतिरस्कारेण प्रवचनप्रकाशनं प्रभावनम्, एते अष्ट दर्शनाचाराः ॥२४॥ साम्प्रतं चारित्राचारभेदानाह -
पणिहाणजोगजुत्तो, पंचहिं समितीहिं तीहिं गुत्तीहिं । एस चरित्तायारो, अट्ठविहो होइ णायव्वो ॥७१९॥ १५/२५
प्रणिधानं मनस एकग्र्यं शुभविषयम्, तदेव योगो धर्मव्यापारः तेन युक्तः, अथवा योगश्चित्तवृत्तिनिरोधः, उचितानुष्ठानं वा, प्रणिधानं च योगश्च ताभ्यां युक्तः । पञ्चभिः समितिभिरीर्या-भाषा-ऽन्वेषण-निक्षेपा -ऽऽदान-विसर्गरूपाभिः, तिसृभिश्चगुप्तिभिर्मनो-वाक्काय-रक्षारूपाभिरुपलक्षित एष चारित्राचारो ऽष्टविधो भवति ज्ञातव्योऽवसेयः ॥ २५ ॥