________________
१९६
१५-आलोचनाविधि-पञ्चाशकम्
गाथा - २०-२३
शुभा तु शुभैव, स्वरूपेण शुभहेतु:, भाविनश्च शुभस्याऽवन्ध्यकारणं सङ्क्लेशनिवृत्त्यात्मकत्वात् पुण्यानुबन्धिपुण्यहेतुत्वाच्च ॥१९॥
शुभद्रव्यादीनेव व्याचष्टे -
दव्वे खीरदुमादी, जिणभवणादी य होइ खेत्तम्मि | पुण्णतिहिपभिति काले, सुहोवओगादि भावे उ ॥७१४॥ १५/२०
द्रव्ये द्रव्यविषया, विशुद्धिरिति प्रस्तावाद् गम्यते, क्षीरद्रुमादिः, आदिशब्दादशोकचम्पकादिपरिग्रहः । जिनभवनादिश्च भवति, क्षेत्रे क्षेत्रविषया, आदिशब्दादिक्षुशालिक्षेत्रादिपरिग्रहः । पूर्णा तिथिप्रभृतिः शुक्लपञ्चम्यादिः काले कालविषया विशुद्धिः । शुभोपयोगः शुभाध्यवसायः, आदिशब्दान्निमित्तशास्त्रगतशुभभावपरिग्रहः । भावे तु भावविषया विशुद्धिः ॥२०॥
सुहदव्वादिसमुदए, पायं जं होइ भावसुद्धि त्ति ।
ता एयम्मि जएज्जा, एसा आणा जिणवराणं ॥ ७१५॥ १५/२१ शुभद्रव्यादिसमुदये शुभद्रव्यक्षेत्रकालभावमेलके, प्रायो बाहुल्येन यद् यस्माद् भवति जायते, भावशुद्धिरितिकृत्वा, तत्तस्माद् एतस्मिन् द्रव्यादौ समुदये यतेत यत्नं कुर्वीत, एषा आज्ञा जिनवराणां भगवताम् ॥२१॥
आलोचनादिविधिरुक्तोऽधुनाऽऽलोचयितव्याऽपराधा
-
आलोएतव्वा पुण, अइयारा सुहुमबायरा सम्मं ।
नाणायारादिगया, पंचविहो सो य विणणेओ ॥७१६॥ १९५ / २२
आलोचयितव्याः प्रकाशनीयाः, पुनरतिचारा अपराधाः, सूक्ष्मबादराः सूत्रोक्ताः, सम्यङ् न्यायेन, ज्ञानाचारादिगता: ज्ञानदर्शनचारित्रतपोवीर्यविषयाः, पञ्चविधः पञ्चधा स च आचारः, विज्ञेयोऽवबोद्धव्यः ॥२२॥
ज्ञानाचारभेदानाह -
काले विए बहुमाणे उवहाणे तहा अनिण्हवणे । वंजणअत्थतदुभए, अट्ठविहो नाणमायारो ॥७१७ ॥ १५/२३
काले [प्रथमैकवचनान्तत्वाद् वा काल एव ज्ञानाचार: - अटी. ] कालविषयोऽकालस्वाध्यायपरिहारेण, विनये विनयविषयः । ज्ञानस्य ज्ञानिनां ज्ञानसाधनानां चाविनयत्यागेन, बहुमाने बहुमानविषयः, तेषामेवाभ्यन्तरसङ्क्लेशवर्जने, उपधाने उपधानविषयः, यथास्वमध्ययनादिषु