________________
गाथा - १६-१९
१५- आलोचनाविधि-पञ्चाशकम्
१९५
तथा परहिते युक्तः तत्सम्पादनोत्साहवान्, विशेषतो विशेषेण, सूक्ष्मभावा बन्धमोक्षादयः, तेषु कुशलमतिर्निपुणबुद्धिः सूक्ष्मभावकुशलमतिः, भावो जीवाध्यवसायस्तद्विषयमनुमानं पराभिप्राय-परिच्छेदात्मकमविसंवादिप्रमाणं तद्विद्यतेऽस्येति भावानुमानवान्, तथा योग्य उचितः आलोचनाचाय आलोचनागुरुः ||१५||
'क्रमेण' इत्युक्तम् तत्प्रकाशनायाह
दुविणलोमेणं, आसेवणवियडणाभिहाणेणं । आसेवणाणुलोमं, जं जह आसेवियं वियडे ॥७१०॥ १५/१६
-
आलोयणाणुलोमं, गुरुगऽवराहे उ पच्छओ वियडे । पणगादिणा कमेणं, जह जह पच्छित्तवुड्ढी उ ॥७११॥ १५/१७
द्विविधेन द्विप्रकारेण, अनुलोमेनानुकूलेन क्रमेणेति वक्ष्यति, तस्य विशेषणमिदम्, आसेवनविकटनाभिधानेनासेवनाऽऽलोचना नाम्ना क्रमेण आसेवनानुलोमम्, स्वरूपतः कीदृक् ? यद् यथाऽऽसेवितं समाचरितं विकटयति गुरु लघु वा ॥१६॥
आलोचनानुलोमं पुनः कीदृशं स्वरूपतः गुरुकापराधास्तु गुरुतरप्रायश्चित्तयोग्यदोषान् । पश्चादुत्तरकालं विकटयति प्रकटयति, गुरोः प्रकाशयतीत्यर्थः । पञ्चकादिना लघुगुरुप्रायश्चित्तभाजा, क्रमेणानुपूर्व्येण यथा यथा प्रायश्चित्तवृद्धिस्तु पंचरात्रादेरारभ्य ॥१७॥
तह आउट्टियदप्पप्पमायओ कप्पओ 'वऽजयणाए ।
कज्जे वा जयणाए, जहट्ठियं सव्वमालोए ॥७१२ ॥ १५/१८
तथा आकुट्टिका-दर्प-प्रमादतः आकुटिकोपेत्यकरणम्, दर्पो वल्गनादिः प्रमादः पञ्चविधो मद्यादिः, तेभ्यः । कल्प आचारस्ततो, वाऽयतनयाऽप्रयत्नेन, यदासेवितमिति गम्यते । कार्ये वा पुष्टालम्बने कल्पान्तर्गते यतनया प्रयत्नेन यथास्थितं यद् यथावस्थितं सत्यमित्यर्थः । सर्वमालोचयति विशुद्धिकामः ॥ १८ ॥ (१. व जयणाए कज्जे वाऽजयणाए - अटी.)
द्रव्यादिशुद्धीए[१५-८]इत्युक्तम्, तदुपदर्शनायाह
दव्वादीसु सुहेसुं, देया आलोयणा जतो तेसुं ।
होति सुहभाववुड्डी, पाएण सुहा उ सुहहेऊ ॥७१३॥ १५/१९
द्रव्यादिषु द्रव्यक्षेत्रभावकालेषु शुभेष्वनुकूलेषु, देया दातव्या । आलोचना स्वापराधप्रकाशना, यतस्तेषु शुभद्रव्यादिषु भवति शुभभाववृद्धिः कुशलाध्यवसायसमृद्धिः । प्रायेण