________________
१९४
१५-आलोचनाविधि-पञ्चाशकम् गाथा-१२-१५ अर्हम् इत्युक्तं प्राक्, तदुपदर्शनायाह - संविग्गो उ अमाई, मइमं कप्पट्ठिओ अणासंसी । पण्णवणिज्जो सद्धो, आणाइत्तो दुकडतावी ॥७०६॥ १५/१२ तविहिसमुस्सुगो खलु, अभिग्गहासेवणादिलिंगजुतो । आलोयणापयाणे, जोग्गो भणितो जिणिदेहि ॥७०७॥ १५/१३ जुम्मं ।
संविग्नस्तु संसारभीरुरेव, अमायी मायारहितः स्वस्थाशयः, मतिमान् बुद्धिसम्पन्नः, कल्पस्थितः स्थविरजातसमाप्तकल्पादिस्थितः । अनाशंसी निराशंसः सांसारिकफलनिरपेक्षः, प्रज्ञापनीयः सुखावबोधनीयः, श्राद्धः श्रद्धासमन्वितः । आज्ञागमः, तेन वित्तः प्रतीतः, आज्ञावित्तः, तदनुसारी दुष्कृततापी दुर्विहितपश्चात्तापी ॥१२॥
तद्विधिसमुत्सुकः खलु, आलोचनाविध्यभिलाषातिरेकसम्पन्नः । अभिग्रहासेवनादिलिङ्गयुतः अभिग्रहसमाचरणाराधननिर्वाहादिलिङ्गयुक्तः । आलोचनाप्रदाने वितरणे योग्यः साधुः भणित उक्तः जिनेन्द्रैर्भगवद्भिः ॥१३॥
'अर्हे गुरौ ददाती'त्युक्तं, तमाह - आयारवमोहारव, ववहारोवीलए पकुव्वी य । निज्जव अवायदंसी, अपरिस्सावी य बोद्धव्वो ॥७०८॥ १५/१४
आचारोऽस्यास्तीति आचारवान् पञ्चविधाचारव्यवस्थितः, त्रिकमपराधजातं साधूनामवधारयतीति, आधारवानवधारणाशक्तिसम्पन्न इत्यर्थः । व्यवहारवान् व्यवहारः आगमश्रुताज्ञाधारणाजीताख्यपञ्चविधव्यवहारज्ञः । स्वदोषप्रच्छादनपरमपि सत्त्वमालाद्यवचनामृतैरवपीडयति निष्कर्षयति दोषजातं तस्मादिति अवपीडकः । प्रकारयिता च प्रायश्चित्तमागतं साधौः प्रकर्तुं सहायवृत्त्याऽऽरम्भयतीति प्रकारी प्रकारक इत्यर्थः । निर्यामकः साधुप्रायश्चित्तस्य निर्वाहकः, तथा विधत्ते यथा साधवस्तन्निर्वहन्ति ऐहलौकिक-पारलौकिकापायान्, प्रायश्चित्ताकरणे दर्शयितुं शीलमस्येति अपायदर्शी सत्त्वविशुद्धिकरण इत्यर्थः । परिश्रावः परिगलनं भिन्नभाजनस्येव, स नास्यास्तीति अपरिश्रावी, यः परोक्तमन्यस्मै न कथयति सोऽपरिश्रावी [चः समुच्चये, अटी.] बोद्धव्यः अवगन्तव्यः ॥१४॥ तह परहियम्मि जुत्तो, विसेसओ सुहुमभावकुसलमती । भावाणुमाणवं तह, जोग्गो आलोयणायरिओ ॥७०९॥ १५/१५