________________
गाथा-९-११ १५-आलोचनाविधि-पञ्चाशकम् __ अत्र आलोचनायां पुनरेष विधिर्वक्ष्यमाणः, अझै योग्यो, अर्हे योग्ये गुरौ, ददाति प्रयच्छति क्रमेणानुपूर्व्या, आसेवनादिना,खलु वक्ष्यमाणेन सम्यग् द्रव्यादिशुद्ध्या। यदैतेऽनुगुणास्तदालोचना विधेया प्रशस्तत्वादस्य वस्तुनः ॥८॥
कालो पुण एतीए, पक्खादी वण्णितो जिणिंदेहि । पायं विसिट्ठगाए, पुव्वायरिया तथा चाहू ॥७०३॥ १५/९
कालोऽवसरः । पुनरेतस्या आलोचनायाः पक्षादिः पक्ष-चतुर्मासादिः वर्णित उक्तः, जिनेन्द्रैर्भगवद्भिः प्रायो बाहुल्येन, विशिष्टकाया विशिष्टाया यतमानपुरुषविषयत्वेन, पूर्वाचार्याः पूर्वसूरयः तथा चाहुर्बुवते ॥९॥
पक्खियचाउम्मासे, आलोयण नियमसा उ दायव्वा । गहणं अभिग्गहाण य, पुव्वग्गहिए निवेएउं ॥७०४॥ १५/१०
पाक्षिकचातुर्मास्ये मासे। स्वार्थे स्यञ् [ ] पाक्षिकचातुर्मासिकयोरित्यर्थः । आलोचना विकटना। नियमात्तु नियमेन, दातव्या विधेया ['आलोयण' हुस्वत्वं प्राकृतत्वात्, 'नियमसा' सकारस्य प्राकृतत्वात् अटी.] । ग्रहणमभिनवानाम् अभिग्रहाणां च दण्डकप्रमार्जनादीनाम् । पूर्वगृहीतानविराधनया परिसमाधितान्, निवेद्य कथयित्वा गुरुभ्यः । अपरस्यास्तु प्रमादगर्भायाः प्रमादरहिताया अपि च, विशिष्टदेशकालान्तरिततथाविधगीतार्थोपसम्पत्त्याः, आगमोक्तनीत्या, अन्योऽपि समयः सम्भवतीत्यवसेयम् ॥१०॥
कि पुनः पक्षादावभिमतेयमित्याह - जीयमिणं आणाओ, जयमाणस्स वि य दोससब्भावा । पम्हुसणपमायातो, जलकुंभमलादिणाएणं ॥७०५॥ १५/११
जीतमिदम् आचरितमिदं, चिरन्तनकल्प इत्यर्थः । आज्ञात आगमात् यतमानस्यापि चात्यन्ताप्रमत्तस्यापि च, छद्मस्थस्य दोषसद्भावादपराधसम्भवात् । प्रभ्रष्टं स्मरणं स्मरणाद्वा भ्रष्टं प्रस्मरणं विस्मरणमित्यर्थः। कदाचिद्विस्मृते प्रमादात् क्वचिदवसरे, यतमानस्यापि प्रमादसम्भवात् । प्रमत्तऽप्रमत्तगुणस्थानयोः परावर्तमानयोरन्तर्मुहूर्तमात्रत्वात् । जलकुम्भमलादिज्ञातेन जलाधारकुम्भोऽरञ्जरः, तस्मिन् मलः, आदिशब्दाघटोदञ्चनगृहकचवरादिपरिग्रहः, तज्ज्ञातेन तदुदाहरणेन, यथा जलकुम्भे प्रतिदिनं प्रक्षालितेऽपि कश्चिन्मलः सम्भवति, यः पक्षान्ते विशोध्यते, एवं गृहादिष्वपि, तथा प्रतिदिनं दैवसिकादिदोषशुद्धावपि पक्षान्ते पुनविशुद्धिरिष्यते ॥११॥