________________
१९२
१५-आलोचनाविधि-पञ्चाशकम्
गाथा-५-८ कर्मभिर्जीवस्य व्यवदानतश्चित्तविशुद्धेः तथा विगमो बन्धापगमः । तत् पुनर्व्यवदानं चित्तविशुद्धिलक्षणम्, अनयाऽऽलोचनया, नियमानियमेन, विधिनाऽऽगमोक्तेन, सदा सर्वकालं सुप्रयुक्तया सम्भवति । तस्माद्विधेया गुणवत्त्वादालोचनेति भावः ॥४॥
सुप्रयुक्तालोचना तावदुक्ता, तद् व्यतिरेकमाह - ........ इहरा विवज्जओऽवि हु, कुवेज्जकिरियादिणायतो णेओ । अवि होज्ज तत्थ सिद्धी, आणाभंगा न पुण एत्थ ॥६९९॥ १५/५
इतरथाऽन्यथा, विपर्ययोऽपि विपर्यासोऽपि । हुर्वाक्यालङ्कारे । कुवैद्यक्रियादिज्ञाततो ज्ञेयो, यथा कुवैद्योपदेशाच्चिकित्सा नेष्टसिद्धये, प्रत्युतानाय, आदिशब्दादसिद्धविद्यादसिद्धमन्त्राच्च गुरोः, विद्यामन्त्रसाधनपरिग्रहः । अपिः सम्भावने, अपि नाम भवेत्, तत्र कुवैद्यक्रियादौ सिद्धिरिष्टफलनिष्पत्तिः स्वपुण्यसामर्थ्यात्, आज्ञाभङ्गात् सर्वज्ञाज्ञाविराधनाद् न पुनरत्र दुष्प्रयुक्तालोचनायाम्॥५॥
एतदेव व्यनक्ति - तित्थगराणं आणा, सम्मं विहिणा उ होइ कायव्वा । तस्सऽण्णहा उ करणे, मोहादतिसंकिलेसो त्ति ॥७००॥ १५/६ बंधो य संकिलेसा ततो न सोऽवेति तिव्वतरगाओ। ईसिमलिणं न वत्थं सुज्झइ नीलीरसादीहि ॥७०१॥ १५/७ जुम्मं ।
तीर्थकराणामाज्ञा सम्यग्विधिना तु विधिनैव भवति कर्तव्या । तस्या आज्ञाया अन्यथा त्वन्यथैव करणे निवर्तते [ने]मोहाद् विपर्यासाद् अतिसङ्क्लेश इति, अतिसङ्क्लिष्टाध्यवसाय: ॥६॥ ___ बन्धश्च कर्मबन्धश्च सङ्क्लेशाद् अशुद्धाध्यवसायात् ततः सङ्क्लेशात् न स बन्धः अपैत्यपगच्छति। तीव्रतरकाद् अतिशयतीव्रात् । अत्रैव दृष्टान्तमाह-ईषन्मलिनं मलसम्पृक्तम्, न नैव वस्त्रमाच्छादनम्, शुद्ध्यति शुद्धिमनुभवति, नीलीरसादिभिरूपरागसम्पादनसमर्थद्रव्यविशेषैः ॥७॥ एत्थं पुन एस विही, अरिहो अरिहंमि दलयति कमेणं । आसेवणादिणा खलु, सम्मं दव्वादिसुद्धीए ॥७०२॥ १५/८ दारगाहा ।