________________
॥ पञ्चदशं आलोचनाविधि-पञ्चाशकम् ॥
शीलाङ्गविधिप्रतिपादनानन्तरं तद्विशुद्धये, शास्त्रदृष्टमालोचनामाह - नमिऊण तिलोगगुरुं, वीरं सम्मं समासओ वोच्छं । आलोयणाविहाणं, जतीण सुत्ताणुसारेणं ॥६९५॥ १५/१
नमस्कृत्य नत्वा त्रिलोकगुरुं लोकत्रयपूज्यं वीर कषायादिशत्रुपराक्रमवन्तं सम्यक् न्यायेन भावक्रियाविशुद्धिलक्षणेन समासतः सङ्क्षपेण वक्ष्ये प्रतिपादयिष्यामि, आलोचनाविधान आलोचनाविषयकर्तव्योपदेशम् यतीनां साधूनां सूत्रानुसारेणागमानुसारेण ॥१॥
आलोयणं अकिच्चे, अभिविहिणा दंसणं ति लिंगेहिं । वइमादिएहि सम्मं, गुरुणो आलोयणा णेया ॥६९६॥ १५/२
आलोचनमकृत्ये यतीनामविधेये, विषयभूते, अभिविधिनाऽभिव्याप्त्या, दर्शनं प्रकटनम्, तद् एतदात्मन इति गम्यते । इतिशब्दो भिन्नक्रमः, पुरस्ताद् योजनीयः । लिङ्गैर्लक्षणैः वागादिकैः वाक्कायाकारविशेषैः, सम्यगविपरीतं गुरोराचार्यस्य पादमूल इति सामर्थ्यम् आलोचना इति विज्ञेया प्रस्तुतशब्दार्थभावेन ॥२॥
नन्वकृत्ये समासेविते यत्कर्म बद्धम्, तद्बद्धमेवानुभवनीयं च, कः पुनरालोचनया गुण इत्याशङ्क्याह -
आसेविते विऽकिच्चेऽणाभोगादीहि होति संवेगा। अणुतावो तत्तो खलु, एसा सफला मुणेयव्वा ॥६९७॥ १५/३
आसेवितेऽप्यकृत्ये समाचरितेऽप्यविधेये, अनाभोगादिभिरज्ञातकर्मदोषसामग्रीवैकल्यादिभिः भवति जायत । संवेगात् संसारभयाद् अनुतापः पश्चात्तापस्ततोऽनुतापात्, खल्वेषाऽऽलोचना सफला फलवती मन्तव्या विज्ञेया, नापार्थिका ॥३॥
भावार्थमाह - जह संकिलेसतो इह, बंधो वोदाणओ तहा विगमो। तं पुण इमीइ नियमा, विहिणा सइ सुप्पउत्ताए ॥६९८॥ १५/४ यथा सङ्क्लेशतः संङ्क्लेशाच्चित्ताऽविशुद्धिलक्षणात्, इह प्रवचने बन्धो ज्ञानावरणादि