________________
१९०
१४-शीलाङ्गविधि-पञ्चाशकम् गाथा-४७-५० भावप्रधानाः साधवः इत्युक्तम्, अत्र भावार्थमाह - संपुण्णा वि य किरिया, भावेण विणा न होति किरिय त्ति । णियफलविगलत्तणओ, गेवेज्जुववायणाएणं ॥६९१॥ १४/४७
सम्पूर्णाऽपि च क्रिया प्राणातिपातादिविरतिरूपा भावेन सम्यक्त्वादिना विना न भवति क्रियेति निजफलविकलत्वात् । ग्रैवेयकोपपातज्ञातेन प्रैवेयकोपपातोदाहरणेन ॥४७॥
आणोहेणाणंता, मुक्का गेवेज्जगेसु उ सरीरा । न य तत्थासंपुण्णाएँ साहुकिरियाएँ उववाओ ॥६९२॥ १४/४८
आज्ञा भागवती ओघेन सामान्येन अनन्तानि, अनन्तसंख्यानि समयप्रसिद्धानि । मुक्तानि (जीवैः अटी.) अतीतकाले ग्रैवेयकेषु तु लोकपुरुषग्रीवाभरणस्थानीयविमानेषु पुनः, शरीराण्यप्यकैकजीवेन देवभवसम्बन्धिवैक्रियाणि, न च तत्र तेषु ग्रैवेयकेषु, असम्पूर्णया खण्डरूपया, साधुक्रियया, उपपातो जन्म ॥४८॥
ता णंतसोऽवि पत्ता, एसा न उ दंसणं पि सिद्धं ति । एवमसग्गहजुत्ता, एसा न बुहाण इट्ठ त्ति ॥६९३॥ १४/४९
तत् तस्माद् अनन्तवारानपि प्राप्तैषा सम्पूर्णक्रिया, न तु दर्शनमपि सम्यक्त्वमपि, सिद्धमिति निष्पन्नं न सञ्जातमिति भावः । एवमुक्तनीत्या असद्ग्रहयुक्ताऽसदभिनिवेशसमन्विता एषा क्रिया। न नैव बुधानां विदुषाम् इष्टेत्यभिमता । तस्माद् भावसहितैव क्रियेष्टफलसाधिका ॥४९॥ इय णियबुद्धीऍ इमं, आलोएऊण एत्थ जइयव्वं । अच्चंतभावसारं, भवविरहत्थं महजणेणं ॥६९४॥ १४/५०
इति प्रागुक्तन्यायेन निजबुद्धयाऽऽत्मीयधियाऽविपर्यस्तया, इदमिष्टफलसाधकत्वम् आलोच्य निरुप्य, अत्र क्रियायां प्रतिपत्तव्यम् यतितव्यं प्रयत्नः करणीयः, अत्यन्तभावसारमतिशयभावप्रधानं यथा भवत्येवं क्रियाविशेषणमेतत् ॥ भवविरहार्थं मुक्तिनिमित्तं महाजनेन साधुजनेन ॥५०॥
॥शीलाङ्गविधि-पञ्चाशकं चतुर्दशं समाप्तम् ॥