________________
गाथा-४४-४६ १४-शीलाविधि-पञ्चाशकम्
१८९ भवन्ति ज्ञातव्याः । एताभिः परीक्षाभिः साधुपरीक्षेह कर्तव्या सुवर्णपरीक्षावत् ॥४३॥
साधनवाक्यनिगमनार्थमाह - तम्हा जे इह सुत्ते, साहुगुणा तेहिँ होइ सो साहू। अच्चंतसुपरिसुद्धेहिं मोक्खसिद्धि त्ति काऊण ॥६८८॥ १४/४४
तस्माद्य इह सूत्रे पूर्वापराविरोधिनि तन्त्रयुक्तिगर्भे, साधुगुणाः प्रतिपादिताः, तैर्गुणैर्भवति स प्रस्तुतः साधुः, विशिष्टकार्यसाधनक्षमः । अत्यन्तसुपरिशुद्धैः अतिनिर्दोषैः, मोक्षसिद्धिरिति कृत्वा, न पुनरगुणस्थितः, प्रद्वेषनिबन्धनमिदमुच्यते निर्गुणः साधुर्न भवतीति भावसामायिकक्षतिप्रसङ्गाद, येषामेव तु साधुगुणानां प्रत्यासत्त्या मोक्षकारणत्वम्, तेषामेव तदितरनिरासेन तद् व्यवस्थाप्यते, न ह्यकारणमेव स्वरूपतः कार्यं जनयितुमलम् । येषां तु साधुगुणानां मोक्षं प्रत्यबन्धहेतुत्वम्, तेषामेवेहोपदेशः प्रस्तुत इत्यनवद्यम् ॥४४॥
उपसञ्जिहीर्षुराह - अलमेत्थ पसंगेणं, सीलंगाइं हवंति एमेव । भावसमणाण सम्मं, अखंडचारित्तजुत्ताणं ॥६८९॥ १४/४५
अलमत्र प्रसङ्गेन पर्याप्तं विस्तरेण, शीलाङ्गानि भवन्त्येवमेव भावतः परस्परसापेक्षाणि । न ह्येकं बहूनि वा भावविरतिमन्तरेण सम्भवतीति भावः । भावश्रमणानां भावसाधूनाम्, सम्यगवैपरीत्येन अखण्डचारित्रयुक्तानां सकलचारित्रभाजाम् ॥४५॥
इय सीलंगजुया खलु, दुक्खंतकरा जिणेहि पण्णत्ता । भावपहाणा साहू, ण तु अण्णे दव्वलिंगधरा ॥६९०॥ १४/४६
इत्येवमुक्तनीत्या शीलाङ्गयुताः खलु शीलाङ्गयुता एव । दुःखान्तकरा दुःखान्तकरणशीला, जिनैर्भगवद्भिः प्रज्ञप्ताः कथिताः, भावप्रधानाः साधवो न त्वन्ये [द्रव्यलिङ्गधरा] लिङ्गद्रव्यधरा भावनिरपेक्षास्तेषां प्रस्तुतकार्यासाधकत्वात् । न पुनस्ते [द्रव्यलिङ्गिनः] भावसाधूनां द्वेषविषयाः, सर्वजीवानां स्वकर्मसामोपपत्तेः, बलवद्धि कर्म तदन्यथाप्रवृत्ति जनयति । उक्तं च -
अन्यथा शास्त्रगर्भिण्या, धिया धीरोऽर्थमीहते। स्वामीव बलवत् कर्म, विदधाति तमन्यथा ॥[ ] ॥४६॥