________________
गाथा-३९-४३
१८८
१४-शीलाङ्गविधि-पञ्चाशकम् साधुगुणविकलो भवति साधुः, नैव भवतीति भावः ॥३८॥
जुत्तीसुवण्णगं पुण, सुवण्णवण्णं तु जदिवि कीरेज्जा । न हु होति तं सुवण्णं, सेसेहिं गुणेहिसंतेहिं ॥६८३॥ १४/३९
युक्तिसुवर्णकं पुनः त्रपुप्रभृतिद्रव्यान्तरमिश्रम्, सुवर्णवर्णं तु सुवर्णप्रतिच्छायं पुनः यद्यपि क्रियते, कथञ्चित् युक्तिज्ञेन । न हु नैव भवति तद् युक्तिसुवर्णं, सुवर्णं सत्यमेव न भवति । शेषैर्वर्णापेक्षया विषघातित्वादिभिः गुणैरसद्भिरविद्यमानैः ॥३९॥
जे इह सुत्ते भणिया, साहुगुणा तेहि होइ सो साहू। वण्णेणं जच्चसुवण्णगं व संते गुणणिहिम्मि ॥६८४॥ १४/४०
य इह सूत्रे प्रमाणभूते भणिताः प्रतिपादिताः, साधुगुणाः प्रशमादयः तैर्भवति स प्रस्तुतः साधुः वर्णेन सतोपलक्षितं वा, जात्यसुवर्णकमिव जात्यकनकमिव, सति विद्यमाने गुणनिधौ गुणराशौ, विषघाति-रसायनादौ ॥४०॥
जो साहू गुणरहिओ, भिक्खं हिंडेति न होति सो साहू । वण्णेणं जुत्तिसुवण्णगं वऽसंते गुणणिहिम्मि ॥६८५॥ १४/४१
यः साधुः गुणरहितः, प्रशमादिविकलः, भिक्षां हिण्डते पर्यटति केवलमेव, न भवति स साधुः प्रस्तुतमोक्षकार्यासाधनत्वात् । वर्णेन पीतादिनोपलक्षितं युक्तिसुवर्णकमिव व्यवहारायोग्यम्, असति गुणनिधा गुणराशौ, यथा तत्सुवर्ण जात्यं न भवत्येवं साधुरपि ॥४१॥
उद्दिट्ठकडं भुंजति, छक्कायपमद्दणो घरं कुणति । पच्चक्खं च जलगते, जो पियइ कहं नु सो साहू ? ॥६८६॥ १४/४२
उद्दिष्टकृतं सामान्येनाधाकर्मादिदोषदुष्टम्, भुङ्क्ते समुपजीवति । षट्कायप्रमर्दना निष्कारणमेव तहिंसाप्रवृत्तोऽत्यन्तनिरपेक्षः, गृहं मदीयोपाश्रय इति बुद्ध्या करोति, तत्रात्यन्तप्रतिबद्धः, प्रत्यक्षं च जलगतान पूतरकादीन् यः पिबति, कथं नु [स]साधर्भवति नैवेति भावः ॥४२॥
अण्णे उ कसादीया, किल एते एत्थ होंति णायव्वा । एताहि परिक्खाहिं, साहुपरिक्खेह कायव्वा ॥६८७॥ १४/४३ अन्ये तु विद्वांसः, कषादिकाः कषादयः, किलैतद्गाथोक्ता उद्दिष्टकृतादयश्चत्वारः अत्र प्रस्तावे