________________
१८७
गाथा-३५-३८ १४-शीलाङ्गविधि-पञ्चाशकम्
एवं दिटुंतगुणा, सज्झमि वि एत्थ होति णायव्वा । न हि साहम्माभावे, पायं जं होइ दिटुंतो ॥६७९॥ १४/३५
एवं दृष्टान्तगुणाः सुवर्णगुणाः, साध्येऽपि साध्यधर्मोपलक्षितेऽपि धर्मिणि साधौ, अत्राधिकारे भवन्ति ज्ञातव्या विज्ञेयाः । न हि नैव साधाभावे समानधर्मताया अभावे सादृश्याभाव इत्यर्थः । प्रायो बाहुल्येन । यद् यस्माद् भवति दृष्टान्तः, साधाभावेन भवतीत्यर्थः । अतः दृष्टान्तर्मिणो गुणतः साम्यमङ्गीकर्तव्यम् ॥३५॥
कीदृक् पुनः सुवर्णं दृष्टान्तत्वेनोपात्तं विषघातित्वादिगुणोपेतं भवतीत्याह - चउकारणपरिसुद्धं, कसछेयतावतालणाए य । जं तं विसघातिरसायणादिगुणसंजुयं होइ ॥६८०॥ १४/३६
चतुष्कारणपरिशद्धं चतुर्भिविशुद्धिकारणैः परिशुद्धिमागतैः कषेण च्छेदेन तापेन ताडनया च यदवंविधं सुवर्णम्, तद्विषघाति-रसायनादिगुणसंयुतं भवति नान्यत् ॥३६॥ दार्टान्तिकः चतुष्कारणपरिशुद्धिमाह -- इयरम्म कसादीया, विसिट्ठलेसा तहेगसारत्तं । अवगारिणि अणुकंपा, वसणे अइणिच्चलं चित्तं ॥६८१॥ १४/३७
इतरस्मिन् साधौ, कषादिकाः कषादयः [कषछेदतापताडनापरिशुद्ध्यः अटी.] विशिष्टलेश्या शुभलेश्या। तथैकसारत्वं क्रियाभावाश्रयणेनैकरूपत्वम्, अपकारिण्यपसर्गकारिणि अनुकम्पा न तु द्वेषः । व्यसने व्यस्यत्यपनयति श्रेयस्तदिति व्यसनं, चित्तविह्वलतापादनसमर्थम्, श्रेयोविघ्नहेतुः कार्यम्, बाह्यमाध्यात्मिकं वा, तस्मिन् अतिनिश्चलमतिनिष्प्रकम्पम्, चित्तं मनः । जात्यसुवर्णरेखातुल्या विशिष्टलेश्या सुवर्णैकसारत्वकल्पच्छेदः (१) तापशुद्धिकल्पा (२) अपकार्यनुकम्पास्वरुपाऽप्रच्युतिकल्पा (३) अचित्ततावस्था ताडनासमा चित्तनिश्चलता (४)॥३७॥
अगुणत्वादित्यस्यार्थं विवृण्वन्नाह - तं कसिणगुणोवेयं, होइ सुवण्णं न सेसयं जुत्ती । न वि नाम रूवमेत्तेण एवमगुणो भवति साहू ॥६८२॥ १४/३८
तत् सुवर्णं कृत्स्नगुणोपेतं सर्वगुणसमन्वितं भवति सुवर्ण व्यवहारानुपाति लोके, न शेषकं नान्यद् युक्तिरिति युक्तिसुवर्णम् । कषच्छेदतापायोग्यम् । न नैव अपिशब्दो भिन्नक्रमः । नाम इति सम्भावने रूपमात्रेणापि विषयमात्रेणापि एवं युक्तिसुवर्णवद् अगुणो निर्गुणोऽभिमत