________________
१४- शीलाङ्गविधि-पञ्चाशकम्
गाथा - ६-९
करणादीनि कृतकारितानुमतिरूपाणि त्रीणि योगा व्यापाररूपत्वात् । मन आदीनि तु मनःप्रभृतीनि पुनर्भवन्ति करणानि, व्यापारं प्रति साधकतमत्वात् । आहारादयः संज्ञाश्चतुरिति चतस्रः, श्रोत्रादीनीन्द्रियाणि पञ्च ॥४॥
१८०
भूम्यादयो नव जीवाः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाः । अजीवकायस्तु दशमो यः परिहार्यः [= अजीवात्मकः पदार्थ सार्थः ] । श्रमणधर्मस्तु साधुधर्मः, पुनः क्षान्त्यादिर्दशप्रकारो दशभेदः स चायं क्षान्तिर्मार्दवार्जवमुक्तितपःसंयमसत्यशौचाकिञ्चन्यब्रह्मचर्यरूपः । एवं स्थिते मूलपदकलापे, भावनैषा भङ्गविभावना इत्यर्थः ॥५॥
न करति मणेण आहारसण्णविप्पजढगो उ नियमेणं । सोर्तिदियसंवुडो पुढविकायआरंभ खंतिजुओ ||६५० ॥ १४/६
न करोति मनसा, आहारसंज्ञाविप्रयुक्तस्तु नियमेन, श्रोत्रेन्द्रियसंवृतः पृथ्वीकायारम्भं कर्मतापन्नम्, क्षान्तियुक्तः क्षान्तिसम्पन्नः ॥६॥
इय मद्दवादिजोगा, पुढविक्काए भवंति दस भेया । आउक्कायादीसु वि, इय एते पिंडियं तु सयं ॥६५१॥ १४/७
सोइंदिएण एयं, सेसेहि वि जं इमं तओ पंच | आहारसण्णजोगा, इय सेसाहिं सहस्सदुगं ॥६५२॥ १४/८
एवं मणेण वइमादिसु एयं ति छस्सहस्साइं ।
न करइ सेसेहिं पि य एए सव्वे वि अट्ठारा ॥ ६५३ ॥ १४ / ९ तिगं ।
इत्यनेन प्रकारेण मार्दवादियोगान्मार्दवादिपदाभिसम्बन्धात् । पृथिवीकाये भवन्ति दश भेदाः । अप्कायादिष्वपीति अनेन च प्रकारेण प्रत्येकं दश । एते सर्वेऽपि पिण्डितं तु शतं भवन्ति शतसङ्ख्या: लभन्ते ॥७॥
श्रोत्रेन्द्रियेणैतच्छतं लब्धम्, शेषैरपि चक्षुरादिभिश्चतुर्भिः, यद् यस्माद्, इदं प्रत्येकं शतम्। ततः पञ्चशतानि, आहारसञ्ज्ञायोगादित्येवं शेषाभिरपि भयादिसंज्ञादिभिः, सहस्त्रद्विकं सर्वाभिरपि, यतः पञ्चशतानि चतुर्गुणानि सहस्रद्वयं भवति ॥८॥
एतन्मनसा लब्धम् सहस्रद्वयम्, वागादिकेषु वाचि काये चेत्यर्थः, एतदिति सहस्रद्वयम्, षट्सहस्त्राणि समुदितानि, न करोतीत्यनेन सहस्रषष्टकं लब्धम्, शेषाभ्यामपि च द्वाभ्याम् एतानि सर्वाण्यप्यष्टादश सहस्राणि भवन्तीति गम्यते ॥ ९ ॥