________________
१४- शीलाङ्गविधि-पञ्चाशकम्
गाथा - १०-१३ अधिकारार्थाभिधानायाह
एत्थ इमं विण्णेयं, अइदंपज्जं तु बुद्धिमंतेहिं ।
एक्कं पि सुपरिसुद्धं, सिलंगं सेससब्भावे ॥६५४ ॥ १४/१०
१८१
अत्र शीलाङ्गप्रस्तावे, इदं वक्ष्यमाणं विज्ञेयमवगन्तव्यम् एदम्पर्यं तु भावार्थरूपं वाक्यतात्पर्यं पुनः बुद्धिमद्भिः प्रज्ञावद्भिः । एकमपि क्रियारूपं सुपरिशुद्धं निर्दोषं शीलाङ्गं शीलावयवरूपं शेषसद्भाव भावतः शेषशीलाङ्गसत्तायाम् ॥१०॥
अत्रैवार्थे दृष्टान्तमाह
एक्को वाऽऽयपएसोऽसंखेयपएससंगओ जह तु । एतं पितहा णेयं, सतत्तचाओ इहरहा उ ॥ ६५५॥ १४/११
एकोऽप्यात्मप्रदेशो जीवप्रदेश: असङ्ख्येयप्रदेशसङ्गतो यथा तु समानजातीयैरसङ्ख्येयैः प्रदेशैरविभागवृत्तिर्या सैव, न पुनरेकाक्येव कदाचित्तदपरनिरपेक्षः । एतदपि शीलाङ्गं तथाविभागवृत्त्या ज्ञेयम् । स्वतत्त्वत्यागः स्वरूपत्यागः, इतरथा तु विभागवृत्ताविष्यमाणायाम्
॥११॥
युक्तिमाह -
जम्हा समग्गमेयं पि सव्वसावज्जयोगविरती उ । तत्तेणेगसरूवं, न खंडरूवत्तणमुवेति ॥६५६ ॥ १४/१२
यस्मात् कारणात् समग्रं परिपूर्णम् एतदपि शीलम्, सर्वसावद्ययोगविरतिस्तु सर्वेभ्यः सावद्ययोगेभ्यो विरतिः, स्वभावमेव तत्त्वेन परमार्थेन एकस्वरूपं सकलरूपम्, न खण्डरूपत्वमुपैति, न कदाचित् खण्डश आत्मलाभं लभते ॥१२॥
एयं च एत्थ एवं विरतीभावं पडुच्च दट्ठव्वं ।
न उ बज्झं पि पवित्तिं, जं सा भावं विणा वि भवे ॥६५७॥ १४/१३
एतच्च शीलम् अत्र प्रक्रमे । एवं सकलरूपं विरतिभावं विरतिपरिणाममान्तरम्, प्रतीत्य द्रष्टव्यम्, न त बाह्यामपि प्रवृत्ति क्रियारूपाम् । यद् यस्मात् सा बाह्या प्रवृत्तिः, भावं विनाप्यशुभपरिणाममन्तरेणापि भवेद् भावसाधोः ॥१३॥