________________
। ॥ चतुर्दशं शीलाङ्गविधि-पञ्चाशकम् ॥
प्राक् साधूनामाहारविशुद्धिरुद्गमादिदोषपरिहारेण प्रतिपादिता, अधुना साधुधर्मगतशीलाङ्गप्रतिपादनायाह
नमिऊण वद्धमाणं, सीलंगाई समासओ वोच्छं। समणाण सुविहियाणं, गुरूवएसाणुसारेणं ॥६४५॥ १४/१
नत्वा वर्धमानं शीलाङ्गानि शीलावयवरूपाणि, तत्कारणाणि वा, समासतः सङ्क्षपेण वक्ष्ये, श्रमणाना साधूनाम्, शोभनं विहितमनुष्ठानं येषां ते सुविहितास्तेषां गुरूपदेशानुसारेण गुर्वाज्ञानुवृत्त्या ॥१॥
सीलंगाण सहस्सा, अट्ठारस एत्थ होति नियमेणं । भावेणं समणाणं, अखंडचारित्तजुत्ताणं ॥६४६॥ १४/२
शीलाङ्गानां सहस्राणि अष्टादशसङ्ख्या, अत्र प्रस्तुते भवन्ति नियमेनावश्यन्तया, न न्यूनान्यधिकानि वा । भावेन श्रमणानां भावसाधूनामित्यर्थः । अखण्डचारित्रयुक्तानां सकलचारित्रसमन्वितानाम् ॥२॥
कथं पुनरष्टादशशीलाङ्गसहस्रनिष्पत्तिरित्याह - जोए करणे 'सण्णा, इंदियभूमादिसमणधम्मे य । सीलंगसहस्साणं, अट्ठारसगस्स निप्फत्ती ॥६४७॥ १४/३
योगः करणं सज्ञा इन्द्रियाणि भूम्यादयः श्रमणधर्मश्च शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः ॥३॥ १. सण्णाइंदिय. अटी. ।
एतद्भेदख्यापनायाह -_ . करणादि तिण्णि जोगा, मणमादीणि उ हवंति करणाई । आहारादी सण्णा, चउ सोत्ताइंदिया पंच ॥६४८॥ १४/४ भोमादी नव जीवा, अजीवकाओ उ समणधम्मो उ । खंतादि दसपगारो, एव ठिए भावणा एसा ॥६४९॥ १४/५ जुम्मं ।