________________
१७८
१३- पिण्डविधान- पञ्चाशकम्
गाथा - ५०
द्वात्रिंशत् कवलाः मानं प्रमाणमुच्यते [ प्रथमा बहुवचनान्तत्वात् कवला:, अत्र छन्दसः हेतोः 'कवल' इति ह्रस्वत्वम् अटी. ] । रागद्वेषाभ्यां धूमाङ्गारम्, अल्पान्तरत्वाद्धूमशब्दस्य पूर्वनिपातः लघ्वक्षरा - सखि - ईद्रुत्-स्वरादि - अल्पस्वर - अर्च्यम् एकम् [ सिद्धहेम - ३.१.१६० ] । रागाच्चारित्रा(त्रे)ङ्गारो द्वेषाद्भूमः । वैयावृत्त्यादयः कारणम्, आदिशब्दाद् वेदनादिग्रहः, यथोक्तम् - वेयण वेयावच्चे, इरियट्ठाए य संजमट्ठाए ।
तह पाणवत्तियाए, छटुं पुण धम्मचिंताए ॥ [ ओघनियुक्ति गाथा - ५८२ ] अविधावन्यथाकरणे, अतिचाराऽतिक्रमः, तस्मादविधिर्न कार्यः ॥४९॥ प्रकरणोपसंहारमाह -
एयं णाऊणं जो, सव्वं चिय सुत्तमाणतो कुणति । काउं संजमकायं, सो भवविरहं लहुं लहति ॥६४४॥ १३/५०
एतत् पूर्वोक्तं ज्ञात्वाऽवगम्य, यः साधुः, सर्वमेव सप्तचत्वारिंशद्दोषजातं सूत्रमानतः सूत्रप्रमाणतः सूत्रप्रामाण्येन, करोति विधत्ते यथागमं विधिप्रतिषेधाभ्यां कृत्वा संयमकायं चारित्रात्मानं संयमराशिं वा, स प्रस्तुतः साधुः भवविरहं संसारविरहं लघु शीघ्रमेव लभतेऽवाप्नोति ॥५०॥ (१. कायो-अटी.)
॥ पिण्डविधि-पञ्चाशकं त्रयोदशं समाप्तम् ॥