________________
१७७
गाथा-४५-४९ १३-पिण्डविधान-पञ्चाशकम् इहरा न हिंसगस्स वि, दोसो पिसियादिभोत्तु कम्माओ । जं तस्सिद्धिपसंगो, एयं लोगागमविरुद्धं ॥६३९॥ १३/४५
इतरथाज्ञायोगमन्तरेण दोषाभावेऽभ्युपगम्यमाने, न हिंसकस्यापि हिंस्रस्यापि दोषो बन्धलक्षणः, पिशितादिमांसादिप्राण्युपमर्दैन भुङ्क्त्वा [पिसियादिभोत्तु....भोक्तुः,....भोक्तुं - अटी.] कर्मणः सकाशाद्यद् यस्मात् सिद्धिप्रसङ्गो दोषाभावसिद्धिप्रसङ्गः । एतद्दोषाभावापादनं लोकागमविरुद्धं लोकागमाभ्यां बाधितं वर्तते तस्मादाज्ञायोग एव दोषापहारसमर्थः ॥४५॥
ता तहसंकप्पो च्चिय, एत्थं दुट्ठो त्ति इच्छियव्वमिणं । तदभावपरिणाणं, उवओगादीहिं उ जतीणं ॥६४०॥ १३/४६
तत्तस्मात् तथासङ्कल्प एवाधिकारम्भसङ्कल्प एव अत्र पिण्डग्रहणे, दुष्ट इति दोषहेतुः एष्टव्यमिदम्, तदभावपरिज्ञानं सङ्कल्पदोषाभावपरिज्ञानं दोषाभावपरिज्ञानं वा। उपयोगादिभिस्तूपयोगनिमित्तशुद्ध्यादिभिः पुनः, यतीनामिदं च निमित्तचूलिकादिग्रन्थानुसारेण ज्ञेयम्। तत्र सूक्ष्मेक्षिकयोक्तत्वात् ॥४६॥ --- उद्गमादयो यत्प्रभवाः, तत्ख्यापनायाह - गिहिसाहूभयपहवा, उग्गमउप्पायणेसणादोसा । एए तु मंडलीए, णेया संजोयणादीया ॥६४१॥ १३/४७
गृहिसाधूभयप्रभवा उद्गमोत्पादनैषणादोषाः, प्राक् प्रतिपादिताः, एते तु वक्ष्यमाणाः मण्डल्यां ज्ञेयाः संयोजनादिकाः॥४७॥
एतानेवाह - संयोजणा पमाणे, इंगाले धूम कारणे चेव । उवगरण भत्तपाणे, सबाहिरब्भंतरा पढमा ॥६४२॥ १३/४८
संयोजना प्रमाणमङ्गारो धूमः कारणं चैव पञ्चैते । तत्र संयोजनामाह-उपकरण उपकरणविषया भक्तपाने भक्तपानविषया सबाह्याभ्यन्तरा प्रथमा संयोजना, बहिरुपकरणसंयोजना, अन्तरुपकरणसंयोजना 1 बहिर्भक्तपानसंयोजना [अन्तर्भक्तपानसंयोजना, मुखसंयोजना च] समयप्रसिद्धा सर्वैव ॥४८॥
प्रमाणादीनाह - बत्तीस कवल माणं, रागद्दोसेहिं धूमइंगालं । वेयावच्चादीया, कारणमविहिमि अइयारो ॥६४३॥ १३/४९