________________
१७६
चैत्यवन्दनादेश्च निरवद्यत्वं प्रतिविशेषः ॥ ४० ॥
१३- पिण्डविधान - पञ्चाशकम्
एतदेव समर्थयितुमाह -
-
गाथा - ४१-४४
न खलु परिणाममेत्तं, पदाणकाले असक्कियारहियं । गिहिणो तणयं तु जई, दूसइ आणाऍ पडिबद्धं ॥ ६३५ ॥ १३ / ४१
नैव परिणाममात्रं शुभसङ्कल्परूपं कर्तृ प्रदानकाले, सामान्येनैव असत्क्रियारहितमधिकाऽऽरम्भरहितम्, गृहिणः सम्बन्धि [तणयं सत्कं अ. टी.] पुनर्यतिं कर्मतापन्नं दूषयति । नैव दूषयतीत्यर्थः । कीदृशं यतिं ? आज्ञायां सर्वज्ञवचनरूपायां प्रतिबद्धं व्यवस्थितम् ॥४१॥ विशेषतः शिष्टगेहेष्वनटनम् [ १४/३४ गाथायाम् ] इत्युक्तम्, तन्निराकरणायाह - सिट्ठा वि य केइ इहं, विसेसओ धम्मसत्थकुसलमती ।
इय न कुणंति वि अणडणमेवं भिक्खाऍ वतिमेत्तं ॥६३६॥ १३ / ४२
शिष्टा अपि केचिदिह विशेषतो विशेषेण धर्मशास्त्रकुशलमतयो धर्मागमनिष्णातबुद्धय इत्येवं स्वरूपमारम्भं न कुर्वन्त्यपि न निर्वर्त्तयन्त्यपि, अनटनमेवमुक्तनीत्या भिक्षाया वाङ्मात्रं परोक्तम्॥४२॥
दुक्करयं अह एवं जइधम्मो दुक्करो चिय पसिद्धं ।
"
किं
पुण ? एस पयत्तो, मोक्खफलत्तेण एयस्स ॥६३७॥ १३/४३ दुष्करमेव दुष्करम् अथैतदाकृताकारितासङ्कल्पितरूपग्रहणम् । सूरिराह । यतिधर्मः साधुधर्मो दुष्कर वासुकर एव, प्रसिद्धं प्रख्यातमेतत् । किं पुनरेष प्रयत्नो विशुद्धपिण्डग्रहणविषयः ? मोक्षफलत्वेन मोक्षः फलमस्येति मोक्षफलस्तद्भावस्तत्वं तेन, मोक्षहेतुतयेति भाव:, एतस्य साधोः [यतिधर्मस्य-अटी. ] ॥४३॥
ननु यद्येषणाप्रवृत्तस्यापि यतेः कथञ्चिदशुद्धाहारपरिभोगो भवेत् तत्र किं दोषः स्यान्न वा'इत्याशङ्क्याह –
भोगंमि कम्मवावारदारतोऽवित्थ दोसपडिसेहो ।
ओ आणाजोएण कम्मुणो चित्तयाए य ॥ ६३८ ॥ १९३ / ४४
अशुद्धाहारभोगेऽपि कर्मव्यापारद्वारत: [ अपि - अटी. ] कर्मव्यापारद्वारेण कर्मसामर्थ्यमुखेनेत्यर्थः । अत्र प्रस्तुते दोषप्रतिषेधो [ज्ञेयः ] विज्ञेयो दोषनिषेधोऽवगन्तव्यः । आज्ञायोगेनाss गमयोगेन हेतुना, कर्मणा ज्ञानावरणादेः चित्रतया च ॥४४॥