________________
१७३
गाथा-२९-३२ १३-पिण्डविधान-पञ्चाशकम्
अपरिणयं दव्वं चिय, भावो वा दोण्ह दाण एगस्स । लित्तं वसादिणा छड्डियं तु परिसाडणावंतं ॥६२३॥ १३/२९ तिगं ।
कर्माद्याधाकर्मादि शकते तच्छङ्कितं भवति । मक्षितमुदकादिना तु यद् युक्तं निक्षिप्त सजीवादा सचित्ताचित्तमिश्रेषु, पिहितं तु फलादिना बीजपूरकादिना, स्थगितमाच्छादितम् ॥२७॥
मात्रकगत मात्रगतं भाजनगतमित्यर्थः । अयोग्यमदानोचितं तुषादि, पृथिव्यादिषु क्षिप्त्वा ददाति [तत्] संहृतमुच्यते । दायका दातारो बालवृद्धरोग्यनधिकारिप्रभृतयः अयोग्या दाने, दातृदोषोऽयम्, बीजादिभिरुन्मिश्रमुत्प्राबल्येन मिश्रीकृतमुन्मिश्रमुच्यते ॥२८॥
अपरिणतं द्रव्यमेव न प्रासुकं भावो वा न परिणतो दातुः, द्वयोर्दान एकस्य लिप्तं वसादिना द्रव्यजातेन लिप्तमुच्यते छर्दितं तु परिशाटनावत् । यत्रानीयमानेऽवयवाः परिशटन्ति छर्दितमित्युच्यते ॥२९॥
एयद्दोसविसुद्धो, जतीण पिंडो जिणेहिष्णुण्णाओ। सेसकिरियाठियाणं, एसो पुण तत्तओ णेओ ॥६२४॥ १३/३०
एतद्दोषविशुद्धो द्विचत्वारिंशद्दोषविरहितो, यतीनांपिण्डोजिनैरनुज्ञातोऽनुमतः,शेषक्रियास्थिताना सूत्रार्थपौरुष्यादिस्थितानाम्, एष पिण्डः पुनस्तत्त्वतो ज्ञेयो न तद्विकलानाम् ॥३०॥
एतदेव समर्थयते - संपत्ते इच्चाइसु, सुत्तेसु निदंसियं इमं पायं । जतिणो य एस पिंडो, ण य अन्नह हंदि एयं तु ॥६२५॥ १३/३१
सम्यक् स्वाध्यायकरणादिना, प्राप्ते भिक्षाकाले इत्यादिषु 'सूत्रेषु निदर्शितमिदं शेषक्रियात्वम् प्राया बाहुल्येन, यतेश्चैष पिण्डः, न चान्यथाऽन्येन प्रकारेण, हन्तैतत्तु यतित्वम् । तेन शेषक्रियास्थितस्य पिण्डदोषपरिहारिणः सम्यग् यतित्वमित्यावेदितं भवति ॥३१॥
कथं पुनर्दोषज्ञानं भवतीत्याह - दोसपरिणाणं पि हु, एत्थं उवओगसुद्धिमादीहिं । जायति तिविहनिमित्तं, तत्थ तिहा वणियं जेण ॥६२६॥ १३/३२
१. संपत्ते भिक्खकालम्मि, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपाणं गवेसए । [दश.अ.५.उद्देश-१ गा.१]