________________
१३- पिण्डविधान - पञ्चाशकम्
गाथा - ३३-३६
दोषपरिज्ञानमपि दोषावगमनमपि । हुर्वाक्यालङ्कारे । अत्र पिण्डे उपयोगशुद्ध्यादिभिः प्रकारैः जायते, त्रिविधनिमित्तं कायिक- वाचिक-मानसिकभेदात् । तत्र पिण्डविषये त्रिधाऽतीतप्रत्युत्पन्नाऽनागतभेदेन, वर्णितं कथितम्, येन तेन दोषपरिज्ञानमपि जायते ॥३२॥
१७४
भिक्खासद्दोऽवेवं, अणियतलाभविसउ त्ति एमादी ।
सव्वं चिय उववन्नं, किरियावंतंमि उ जतिम्मि ॥६२७॥ १३/३३ 'भिक्षाशब्दोऽप्येवमनियतलाभविषय इत्येवमादि' यदुक्तम्, सर्वमेवोपपन्नं युक्तम् । तत् क्रियावति तु शास्त्रोक्तक्रियायुक्ते यतौ साधौ सर्वदोषविरहितस्यानियतलाभात्मकस्याहारस्य भिक्षाशब्दवाच्यत्वादिति भावः ||३३||
पराशङ्क्यमाह -
अण्णे भांति समणादत्थं उद्देसियादि संचाए । भिक्खाए अणडणं चिय, विसेसओ सिगेहेसु ॥ ६२८ ॥ १३/३४
अन्ये केचन भणन्ति वदन्ति, श्रमणाद्यर्थं श्रमणादिनिमित्तम् कृतस्य उद्देशिकादिसंत्यागे परिहारे भवद्भिरिष्यमाणे, भिक्षाया अनटनमेवाऽपर्यटनमेव, विशेषतो विशेषेण शिष्टगेहेषु ब्राह्मणादिकुलेषु ॥३४॥
इहैव हेतुमाह -
धम्मट्ठा आरंभ, सिट्ठगिहत्थाण जमिह सव्वो वि । सिद्धो त्ति सेसभोयणवयणाओ तंतणीतीए ॥ ६२९॥ १३/३५
धर्मार्थं पुण्यार्थम् आरम्भ आहारपाकविषयः शिष्टगृहस्थानां स्मृत्याद्यनुसारिणाम्, यद् यस्माद् इह सर्वोऽपि निरवशेषोऽपि सिद्ध इति प्रतिष्ठितः । शेषभोजनवचनात् । गुर्वादिभ्यः शेषं भोक्तव्यम् ['गुरुदत्तविशेषं भुञ्जीत' - अटी. ] इति वचनात् तन्त्रनीत्या श्रुतिस्मृतिनीत्या ॥३५॥
तम्हा विसेसओ चिय, अकयाइगुणा जईण भिक्खति । एयमिह जुत्तिजुत्तं, संभवभावेण न तु अन्नं ॥६३०॥ १३/३६
तस्माद्विशेषत एवाकृतादिगुणाकृताकारितऽसङ्कल्पिता [तत्व] गुणा यतीनां भिक्षेति । एतदिह युक्तियुक्तं युक्तिसङ्गतं सम्भवभावेन सम्भवसद्भावेन, न त्वन्यत् । सामान्यत एवाकृताकारितासङ्कल्पितरूपत्वम् ॥३६॥