________________
१७२
गाथा - २५-२८
१३- पिण्डविधान - पञ्चाशकम् वा मूढो मोहवान् सूक्ष्मेतरचिकित्सां सूक्ष्मबादरव्याधिप्रतीकारम्, यथागमं तु [न] तन्निषेधः साधर्मिकवात्सल्यादेरुच्चैर्गोत्रनिबन्धादाराधकत्वाच्च ॥२१॥
क्रोधफलसम्भावनया प्रत्युत्पन्नः सम्पन्नः तथाविधक्षपकर्षेरिव भवति, क्रोधपिण्डस्तु, गृहिणा गृहस्थस्य कुर्वन्नुत्पादयन् अभिमानं मानपिण्डो यतेर्भवतीति शेषः, सेवतिकासाधोरिव, मायया दापयति तथा च मायापिण्डो भवत्याषाढभूतेरिव ॥२२॥
अतिलोभाल्लोभातिशयात् पर्यटत्ययं लोभपिण्डः, सिंहकेसरमोदकाभिग्रहयतेरिव, आहारार्थं संस्तवं परिचयं द्विविधं पूर्वपश्चात्संस्तवरूपं करोति संस्तवपिण्डोऽयम् । प्रयुङ्क्ते विद्यां स्त्रीदेवताधिष्ठिताम्, मन्त्रं देवपुरुषाधिष्ठितम्, चूर्णं चाञ्जनादिकं श्लक्ष्णरूपम्, योगं च तथाविधद्रव्यसंयोगम्, विद्यापिण्डो मन्त्रपिण्डश्चर्णपिण्डो योगपिण्डः ||२३||
अन्यदप्यैवजातीयं कौतुकादि वा विशिष्टप्रभावौषधिस्नानादि वा [ 'अन्नमह'त्ति पाठान्तरं तत्रान्यत् अथापरम्-अटी.] पिण्डार्थं करोति । मूलकर्म तु अपत्योत्पत्तिहेतुविशिष्टौषधिसंयोगक्रियादिरूपम् । साधुसमुत्था एते भणिता उत्पादनादोषाः ||२४|| (१. अन्नम, अटी.) अधुनैषणादोषानाह -
एसण गवेसणऽण्णेसणा य गहणं च होंति एगट्ठा । आहारस्सिह पगता, तीइ य दोसा इमे होंति ॥६१९॥ १३/२५
एषणं गवेषणा अन्वेषणा च ग्रहणं च भवन्त्येकार्थाः शब्दाः । आहारस्येह प्रकृता प्रस्तुता । तस्याश्चैषणाया दोषा इमे वक्ष्यमाणा भवन्ति ॥ २५ ॥
संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय, एसणदोसा दस हवंति ॥६२०॥ १३/२६
शङ्कितं प्रक्षितं निक्षिप्तं पिहितं संहृतं दायक उन्मिश्रमपरिणतं लिप्तं छर्दितमेषणादोषा दश भवन्ति ॥ २६॥
एतामेव व्याचष्टे -
कम्मादि संकति तयं, मक्खियमुदगादिणा उ जं जुत्तं ।
निक्खित्तं सजियादो, पिहियं तु फलादिणा ठइयं ॥६२१॥ १३/२७
मत्तगगयं अजोग्गं, पुढवादिसु छोढु देइ साहरियं ।
दायग बालादीया, अजोग्ग बीजादिउम्मीसं ॥६२२ ॥ १३/२८