________________
गाथा-१०-१३ १३-पिण्डविधान-पञ्चाशकम्
१६९ ___आधाकर्मावयवसमन्वितं कर्मावयवसमेतं सम्भाव्यते ज्ञायते यकद् यदाहारजातं तत् पूति । उक्तं पूति । मिश्रमाह प्रथममेवाधिश्रयणकाल एव, गृहिणश्च संयताश्च तयोः मिश्रकं तदुपस्कृतादि च गृहसंयतमिश्रोपस्कृतादिमिश्रं तु मिश्रं पुनरेवंविधमभिधीयते ॥९॥
स्थापनादोषमाह - साहोभासियखीराइठावणं ठवण साहुणऽट्ठाए । सुहमेयरमुस्सक्कणमवसक्कणमो य पाहुडिया ॥६०४॥ १३/१०
साधुनाऽवभाषितं याचितं यत् क्षीरादि, तस्य स्थापनं गृहस्थेन यत्क्रियते स स्थापनादोषः। साधूनामर्थ साधुनिमित्तम् । [अवष्वष्कणं] प्राभृतिकामाह-सूक्ष्मेतरा च[ल्प]बादर [ उत्ष्वष्कणम् ] [ अवष्वष्कणम्-] उत्सर्पणं पुरस्ताद् अभिसर्पणं पश्चाच्च मो इति निपातः प्राभृतिका नाम दोषः ॥१०॥
प्रादुष्कारदोषमाह - नीयदुवारंधयारे गवक्खकरणाइ पाउकरणं तु । दव्वाइएहिं किणणं, साहूणट्टाएँ कीयं तु ॥६०५॥ १३/११
नीचद्वारान्धकारे गवाक्षकरणादि, आदिशब्दान्मणिप्रदीपपरिग्रहः । प्रादुष्करणं तु प्रकाशकरणं । क्रीतमाह-द्रव्यादिभिर्द्रव्यभावाभ्यां क्रयणं विनिमयरूपम् । साधूनामर्थे क्रीतं तु-क्रीत पुनर्नाम दोषः ॥११॥
अपमित्यमाह - पामिच्चं जं साहूणऽट्ठा उच्छिदिउं दियावेइ । पल्लट्टिडं च गोरवमादी परियट्टियं भणियं ॥६०६॥ १३/१२
अपमित्यं याचितकं यत्साधूनामर्थे साधुनिमित्तम्, उच्छिद्य याचित्वा 'अहं पुनर्वितरिष्यामि' इत्येवं चेतयते ददाति । परिवर्तितमाह-परावर्त्य वा पूर्वापेक्षया । वा शब्दः चशब्दार्थे । गौरवादिनाभ्यर्हितत्वादिना साधोः । कोद्रवौदनादिप्रक्षेपेण शाल्योदनादि ददतः । परिवर्तितं भणितम् । परिवर्तितं नाम दोषस्तदुक्तम् [जिनैः । अटी.] ॥१२॥
अभ्याहृतमाह - सग्गामपरग्गामा, जमाणिउं आहडं तु तं होइ । छगणादिणोवलितं, उभिदिय जं तमुब्भिण्णं ॥६०७॥ १३/१३