________________
॥ त्रयोदशं पिण्डविधान - पञ्चाशकम् ॥
सामाचार्यन्तर्गतत्वात् पिण्डविशुद्धेः तत्स्वरूपप्रतिपादनायाह - नमिऊण महावीरं, पिंडविहाणं समासओ वोच्छं । समणाणं पाउग्गं, गुरूवएसाणुसारेणं ॥५९५ ॥ १३/१
नत्वा महावीरं महावीर्यं विराजनाद्, भगवन्तम्, पिण्डविधानं पिण्डविधिं समासतो वक्ष्य। श्रमणाना साधूनां प्रायोग्यमुचितम् । गुरूपदेशानुसारेण गुरुवचनान्वयेन ॥१॥ सुद्धो पिंडो विहिओ, समणाणं संजमायहेउ त्ति ।
सो पण इह विणेओ, उग्गमदोसादिरहितो जो ॥५९६ ॥ १३/२
शुद्धो निरवद्यः, पिण्डो विहितस्तीर्थकरादिभिः, श्रमणानां साधूनां संयमात्मा चारित्रात्मा, तस्य हेतुरिति कृत्वा स पिण्डः पुनरिह विज्ञेय उद्गमादिदोषरहितो यः उद्गमादिदोषविकल इति यावत् ॥२॥
उद्गमादीनेवाह -
सोलस उग्गमदोसा, सोलस उप्पायणाए दोसा उ ।
दस एसणाइ दोसा, बायालीसं इय हवंति ॥५९७॥ १३/३
षोडशोद्गमदोषाः, षोडशोत्पादनाया दोषास्तु, दशैषणा दोषा, द्वाचत्वारिंशदिति भवन्ति सर्वे चैते समुदिताः ॥३॥
उद्गमशब्दार्थमाह -
तत्थुग्गमो पसूती, पभवो एमादि होंति एगट्ठा ।
सो पिंडस्साहिगतो, इह दोसा तस्सिमे होंति ॥५९८॥ १३/४
तत्रोद्गमः प्रसूतिः प्रभव एवमादयो भवन्ति एकार्थाः शब्दाः, स उद्गमः पिण्डस्या
धिकृतः । इह प्रस्तावे दोषास्तस्योद्गमस्य इमे वक्ष्यमाणा भवन्ति ॥४॥