________________
१६६ _ १२-साधुसामाचारी-पञ्चाशकम् गाथा-४८-५० अविकृष्टतपःकर्मकारिणि षष्टभक्तानतपमासेविनि विकृष्टेऽपि च विकृष्टतपः कर्मकारिण्यष्टमादितपःकर्मसमासेविनि गणिना गणाधिपतिना । गच्छस्य साधुसमूहस्य, पृच्छ्योपसम्पदङ्गीकर्तव्या ॥४७॥
दशविधसमाचारीमभिधायोपसञ्जिहीर्षुराह - एवं सामायारी, कहिया दसहा समासओ एसा । संजमतवड्डगाणं, णिग्गंथाणं महरिसीणं ॥५९२॥ १२/४८
एवमुक्तनीत्या सामाचारी शिष्टाचरितक्रियाकलापरूपा, कथितोक्ता दशधा समासतः सझेपेण एषा। संयम-तपोभ्यामाढ्यकास्तेषां निर्ग्रन्थानां साधूनां महर्षीणां ज्ञानसम्पन्नानाम् ॥४८॥
अस्याः फलमाह - एयं सामायारी, गँजंता चरणकरणमाउत्ता । साहू खवेंति कम्मं, अणेगभवसंचियमणंतं ॥५९३॥ १२/४९
एतां सामाचारी युञ्जन्तः प्रयुञ्जानाः चरणकरणायुक्ताश्चरणकरणयोरागमप्रसिद्धयोरायुक्ता अप्रमत्ताः, साधवः क्षपयन्ति कर्म ज्ञानावरणादि, अनेकभवसञ्चितमनेकभवोपात्तम्, अनन्तम् अपरिमितम् ॥४९॥
व्यतिरेकसारमाह - जे पुण एयविउत्ता, सग्गहजुत्ता जणंमि विहरंति । तेसिं तमणुट्ठाणं, नो भवविरहं पसाहेइ ॥५९४॥ १२/५०
ये पुनरेतद्वियुक्ता दशविधसामाचारीवियुक्ताः, स्वाग्रहयुक्ता शास्त्रनिरपेक्षयाऽऽत्मीयाभिनिवेशसमन्विता, जने लोके विहरन्ति चेष्टन्ते तेषां स्वग्रहयुक्तानां तदनुष्ठानं क्रियमाणं नो नैव भवविरहं मोक्षं प्रसाधयति निष्पादयति ॥५०॥
॥ साधुसामाचारी पञ्चाशकं द्वादशं समाप्तम् ॥