________________
१६४
१२-साधुसामाचारी-पञ्चाशकम् गाथा-४०-४३ एतच्च चिन्तनीयमित्युपदिशन्नाह - दुग्गतरयणागररयणगहणतुल्लं जईण किच्चं ति । 'आयतिफलमद्धवसाहणं च णिउणं मुणेयव्वं ॥५८४॥ १२/४० __ दुर्गतस्य दरिद्रस्य रत्नाकरे प्राप्ते, रत्नग्रहणमिति लालसया, यथा तत्तुल्यं दुर्गतरत्नाकररत्नग्रहणतुल्यम्, यतीनां साधूनां कृत्यमिति कर्तव्यम् । न तत्र साधोरभिलाषो परमोऽस्ति । आयतिफलमागामिकालभाविकफलम्, अध्रुवाणि साधनानि वीर्यादीनि यस्मिंस्तत्तथा अध्रुवसाधनं च निपुणं सूक्ष्मं यथा भवत्येवं मन्तव्यं ज्ञातव्यं । परिणामसुन्दरं फलं यतीनां कृत्यमध्रुवमनो-वाक्काय-वीर्य-बुद्धि-पाटव-क्षयोपशमादिसाधनञ्चेतिभावः ॥४०॥ (१. आयतफलं अटी.)
शेषसाधुनिमन्त्रणप्रवृत्तेनापि गुरुपृच्छाऽवश्यं विधेयेत्युपदिशन्नाह - इयरेसिं अक्खित्ते, गुरुपुच्छाए णिओगकरणं ति । एवमिणं परिसुद्धं, वेयावच्चं तु अकएऽवि ॥५८५॥ १२/४१
इतरेषामपि साधूनां सम्बन्धिनि आक्षिप्ते ढौकिते कार्य इति गम्यते । साधुभिरेव विधेयतया निर्दिष्ट इत्यर्थः गुरुपृच्छा याः] नियोगकरणमिति नियमविधानम् । एवमिदं परिशुद्धमनवा वैयावृत्त्यं तु व्यावृत्तभावरूपम् अकृतेऽपि तं कथञ्चित्कार्ये, गुरवो हि न यथा कथञ्चित् साधुकार्य प्रतिषेधन्ति, अतोऽधिकृतेऽपि निजरैव साधोः, निर्व्याजपरिणामत्वेन प्रवृत्तत्वात्, अधिकगुणापेक्षया त्वन्यथाप्रवृत्तेः, तत्र तु गुरवः स एव च साधुः ज्ञात्वा प्रमाणम् ॥४१॥ (१. वैयावच्चे अटी.)
उक्ता निमन्त्रणा, उपसम्पत् समाचारीमाह - उवसंपया य तिविहा, नाणे तह दंसणे चरित्ते य। दंसणनाणे तिविहा, दुविहा य चरित्तमट्ठाए ॥५८६॥ १२/४२
उपसम्पच्चात्मनिवेदनारूपा त्रिविधा । ज्ञाने ज्ञानविषया तथा दर्शने चारित्रे च, दर्शनज्ञाने दर्शन-ज्ञानविषया त्रिविधा, द्विविधा च चरित्रार्थाय चारित्रप्रयोजनाय ॥४२॥
एतद्विवरणायाह - वत्तणसंधणगहणे, सुत्तत्थोभयगया उ एस त्ति । वेयावच्चे खमणे, काले पुण आवकहियादी ॥५८७॥ १२/४३
वर्तन-सन्धान-ग्रहणे।वर्तनं परावर्तनमाम्नायतद्विषया। सन्धानं विच्छिन्नस्य पुनरनुसन्धानमनुस्यूतता । ग्रहणं वाचना । एतदर्थमुपसम्पत् । पुनरैकैका त्रिविधा । सूत्रार्थोभयगता तु ज्ञान