SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १६३ गाथा-३६-३९ १२-साधुसामाचारी-पञ्चाशकम् आत्मलब्धिरेव स्वपोषाधिकं कस्माद् गृह्णाति ? येनास्य दानसम्भव इत्याशङ्क्याह - नाणादुवग्गहे सति, अहिगे गहणं इमस्सऽणुण्णायं । दोण्ह वि इट्ठफलं तं, अतिगंभीराण धीराण ॥५८०॥ १२/३६ ज्ञानाद्युपग्रहे ज्ञानदर्शनचारित्रोपष्टम्भे, सति सम्भवति अधिकेऽधिकविषयं ग्रहणमस्य आत्मलब्धिकस्य, अनुज्ञातमनुमतं द्वयोरपि दातृप्रतिगृहीत्रोः साध्वोरिति गम्यते । इष्टफलं तदभिप्रेतफलं दानं ग्रहणं च कीदृशोः द्वयोः अतिगम्भीरयोरुत्कृष्टगम्भीराशययोः धीरयोः स्थिरयोर्भावप्राधान्यात् ॥३६॥ .. तदेवोपदर्शयितुमाह - गहणे वि णिज्जरा खलु, अग्गहणे वि य दुविहा वि बंधो य । भावो एत्थ णिमित्तं, आणासुद्धो असुद्धो य ॥५८१॥ १२/३७ ग्रहणेऽप्यादानेऽप्यन्यसाधुना भक्तादेः, निर्जरा खलु कर्मनिर्जरैव दानपरिणामवतः । अग्रहणेऽपि चान्यसाधुना, निर्जरैवेति वर्तते। द्विविधापि ग्रहणाऽग्रहणाभ्यां बन्धश्चाशुद्धपरिणामस्य कर्मबन्धश्च, भावोऽध्यवसाय: अत्र निमित्तं कारणम्, निर्जरा-बन्धयोः प्रत्येकम् आज्ञाशुद्धोऽशुद्धश्चागमिक इतरश्च ॥३७॥ उक्ता च्छन्दना, निमन्त्रणामाह - सज्झायादुव्वाओ, गुरुकिच्चे सेसगे असंतम्मि । तं पुच्छिऊण कज्जे, सेसाण णिमंतणं कुज्जा ॥५८२॥ १२/३८ स्वाध्यायात् स्वाध्यायकरणात् उव्वाउ त्ति 'श्रान्तो, गुरुकृत्ये गुरुकार्ये शेषके कृतशेषे, असति अविद्यमाने, तदानीं तं गुरुं पृष्ट्वा कार्ये कार्यनिमित्तं शेषाणां साधूनां निमन्त्रणं कुर्याद् गृहीतेन भक्तादिनेति शेषः ॥३८॥ १. [उव्वाअ परिश्रान्तः - दे. १०२] किमेवमुत्साहः कार्यत इत्याह - दुलहं खलु मणुयत्तं, जिणवयणं वीरियं च धम्मम्मि । एयं लभ्रूण सया, अपमाओ होइ कायव्वो ॥५८३॥ १२/३९ दुर्लभं खलु दुर्लभमेव, मनुजत्वं मानुष्यम्। जिनवचनं सर्वज्ञवचनं वीर्यं च धर्मे धर्मविषयम्एतत्रितयं लब्ध्वा सदा सर्वकालम्, अप्रमादो यत्नातिशयः भवति कर्तव्यः ॥३९॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy