________________
१६२
१२-साधुसामाचारी-पञ्चाशकम् गाथा-३३-३५ सत्यां निमित्तादिनेति गम्यते। विधिप्रयोगेऽपि विधिप्रयुक्तावप्यविध्यभावेऽपीत्यर्थः । प्रतिपृच्छनेति ज्ञेया निर्दिष्टविषये समाचारी, तस्मिन् गमनं शकुनवृद्ध्या त्रिवारस्खलनयापि कार्ये गमनं शकुनवृद्ध्याऽऽश्रीयते, न पुनस्तदभावे
पढमं अट्ठस्सासा, बीयं जाणाहि सोलसुस्सासा ।
अह तइयं उद्वेज्जा, अण्णं सउणं वि मग्गेज्जा ॥ इत्यादि वचनात् ॥३२॥ विषयान्तरनिर्देशायाह - पुव्वणिसिद्धे अण्णे, पडिपुच्छा किल उवट्ठिए कज्जे । एवं पि नत्थि दोसो, उस्सग्गाईहिं धम्मठिई ॥५७७॥ १२/३३
पूर्वनिषिद्धे कार्ये, अन्ये सूरयः प्रतिपृच्छा कर्तव्येति मन्यन्ते। किल(-इत्याप्तप्रवादसंसूचनार्थः, अटी.)उपस्थिते कार्ये तस्मिन्नेव साम्प्रतकालकरणीये, एवमपि नास्ति दोषोऽनतिशयिनाम् उत्सर्गादिभिरुत्सर्गापवादाभ्यां धर्मस्थितिरिति हेतोः, न हि धर्मस्थितिरुत्सर्गापवादौ विहाय वर्त्तते ॥३३॥
प्रतिपृच्छोक्ता, अधुना छन्दनामाह - पुव्वगहिएण छंदण, गुरुआणाए जहारिहं होति । असणादिणा उ एसा, णेयेह विसेसविसय त्ति ॥५७८॥ १२/३४
पूर्वगृहीतेन अन्नपानादिना छन्दन उपमन्त्रणं गुर्वाज्ञया यथार्हं यथायोग्यं भवति।अशनादिना त्वेषा छन्दना ज्ञेयेह विशेषविषय इति साधुविशेषगोचरा । न तु कश्चित् सामान्येनैवं विधत्ते ॥३४॥
एतदेव व्यनक्ति - जो अत्तलद्धिगो खलु, विसिट्ठखमगो व पारणाइत्तो । इहरा मंडलिभोगो, जतीऍ तह एगभत्तं च ॥५७९॥ १२/३५
यः कश्चिद् आत्मलब्धिकः खलु अनुज्ञातात्मलब्धिरेव गुरुभिस्तद्विषयसूत्रार्थोभयपारगत्वेन विकृष्टक्षमका[विशिष्टक्षपका अ.टी.]वाऽष्टमादेः कत्रा, पारणावित्तः पारणया प्रतीतः पारणिक इत्यर्थः । इतरथाऽन्यथोत्सर्गेण मण्डलीभोगः समूहभोगः, साधारणत्वाल्लभ्यस्य, विशेषतो दानधर्मानधिकारात् गुर्वनुज्ञयैव स्वीकृतस्य तत्र दानप्रवृत्तेः, यतीनां साधूनां । तथैकभक्तं च एकाशनरूपं तेनापि पृथग्भोगः ॥३५॥