SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ गाथा-२९-३२ १२-साधुसामाचारी-पञ्चाशकम् १६१ इत्येकवद्भावः, तस्मात् पापक्षयपुण्यबन्धाभ्यामित्यर्थः । शुभगतिश्च गुरुलाभश्च तस्माच्छुभगतिः पापक्षयाद्, गुरुलाभः पुण्यबन्धात्, तयोरेव कार्यनिर्देशोऽयम्, एवमेवानेनैव प्रकारेण सर्वसिद्धिरिति सर्वसाध्यसिद्धिरूपः जायते ॥२८॥ व्यतिरेकप्रधानमाह - इहरा विवज्जतो खलु, इमस्स सव्वस्स होइ जं तेणं । बहुवेलाइकमेणं, सव्वत्थाऽऽपुच्छणा भणिया ॥५७३॥ १२/२९ इतरथाऽन्यथा विपर्ययः खलु विपर्यय एव, अस्य प्रस्तुतस्य सर्वस्य गुणकलापस्य भवति यद् यस्मात्, तेन कारणेन, बहुवेलादिक्रमेण सामान्यविशेषगतेन । सर्वत्राऽऽपृच्छना समाचारी भणिता प्रतिपादिता ॥२९॥ उक्ताऽऽपृच्छा, प्रतिपृच्छामाह - पडिपुच्छणा उ कज्जे, पुव्वणिउत्तस्स करणकालम्मि । कज्जंतरादिहेउं, णिहिट्ठा समयकेऊहिं ॥५७४॥ १२/३० प्रतिपृच्छना तु पुनः कार्ये विशिष्ट एव, पूर्वनियुक्तस्य साधोः करणकाले तन्निवर्तनावसरे, कार्यान्तरादिति हेतोः [द्वितीयायाः पञ्चम्यर्थत्वात् - अटी.] कार्यान्तरं ततोऽन्यद्गुणाधिकम्, आदिशब्दानिमित्तस्खलनपरिग्रहः । निर्दिष्टा कथिता समयकेतुभिः समयचिद्वैरागमविद्भिरित्यर्थः ॥३०॥ 'कार्यान्तरादिहेतोः' इत्युक्तम्, तदेव व्यक्तीकर्तुमाह - कज्जंतरं न कज्जं, तेणं कालंतरे व कज्जं ति । अण्णो वा तं काहिति, कयं व एमादिया हेऊ ॥५७५॥ १२/३१ कार्यान्तरमधिकं समुत्पन्नं न कार्यम् । तेन प्राक्तनेन कालान्तरे वा कार्यमिति कालान्तरे वा तत्करणीयं भविष्यति न कदाचित् क्षतिः अन्यो वा साधुः तत्कार्यं करिष्यति सम्पादयिष्यति, तत्करणसमर्थत्वात् । कृतं वाऽन्येन साधुना तदेवमादिका हेतवः प्रतिपृच्छायां सम्भविनोऽन्येऽपि द्रष्टव्याः ॥३१॥ अहवा वि पयट्टस्सा तिवारखलणाए विहिपओगेऽवि।। पडिपुच्छण त्ति णेया, तहिं गमणं सउणवुड्डीए ॥५७६॥ १२/३२ अथवा प्रकारान्तरे प्रवृत्तस्यापि सतः, त्रिवारस्खलनायां त्रीन् वारान् यावत् स्खलनायां
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy