SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १६० १२-साधुसामाचारी-पञ्चाशकम् गाथा-२५-२८ द्धर्मकथादिपरिग्रहः । दर्शनमात्र उपलम्भनमात्रे समवसरणच्छवातिच्छत्रभगवत्सिंहासनादीनाम्, गजादिभ्यो गजाऽश्वरथादिभ्योऽपसरणमुत्तरणमेभ्यः पृथग्भवनमित्यर्थः । श्रूयते चैत्यशिखरादिषु निषाधिका, शोभनाः श्रावकास्तेषामपि न केवलं यतीनामेवेत्यभिप्रायः ॥२४॥ यस्येयं भावतो भवति, तमधिकारिणं निर्दिदिक्षुराह - जो होइ निसिद्धप्पा, निसीहिया तस्स भावतो होइ । अणिसिद्धस्स उ एसा, वइमेत्तं होइ दट्ठव्वा ॥५६९॥ १२/२५ यः पुमान् भवति निषिद्धात्मा निषिद्धसावधव्यापारो, निषीधिका तस्य भावतो भावमाश्रित्य भवति । अनिषिद्धस्य त्वनिषिद्धात्मन एषा निषीधिका वाङ्मात्रमेवार्थशून्यं द्रष्टव्या, तत्साध्याऽकरणात् ॥२५॥ उक्ता निषीधिका, आपृच्छामाह - आपुच्छणा उ कज्जे, गुरुणो गुरुसम्मयस्स वा नियमा। एवं खु तयं सेयं, जायति सति णिज्जराहेऊ ॥५७०॥ १२/२६ आपृच्छां करोति-आपृच्छयति (आपृच्छकः) तस्य, न्यासः तन्त्रयुक्तिरूपम् आपृच्छना तु शब्दः पुनः शब्दार्थे। कार्ये क्वचिद्विशेषविषये, गुरोर्गुरुसंमतस्य वा गुरुनिर्दिष्टस्येत्यर्थः । नियमानियमेन विधेयः । एव खुएवमेव तत्कार्यं वैशेषिकं, श्रेयोऽतिशयप्रशस्यं जायते सम्भवति, सदा सर्वकालं निर्जराहेतुः निर्जराकारणं, नाऽऽपृच्छामन्तरेण श्रेयस्त्वं निर्जराहेतुत्वं चेति भावः ॥२६॥ किमेवमुच्यत इत्याह - सो विहिनाया तस्साहणंमि तज्जाणणा सुणायं ति । सन्नाणा पडिवत्ती, सुहभावो मंगलं तत्थ ॥५७१॥ १२/२७ स गुर्वादिविधरुपायस्य, ज्ञाता, तत्साधने कार्यसाधने तज्ज्ञानाद् गुरुज्ञानात्, सुज्ञातमिति तत्कार्ये सुन्दरावबोधरूपं सुज्ञानात् सम्यग्ज्ञानात् [स्वज्ञानात्, अटी.] प्रतिपत्तिः क्रियायाः, शुभभावः शुभपरिणामो मङ्गलं तत्सिद्धिसूचकं तत्र कार्ये ॥२७॥ इहैवान्वयप्रधानमाह - इट्ठपसिद्धिष्णुबंधो, धण्णो पावखयपुण्णबंधाओ। सुभगइगुरुलाभाओ, एवं चिय सव्वसिद्धि त्ति ॥५७२॥ १२/२८ इष्टप्रसिद्धरनुबन्धोऽभिमतसिद्धेरव्यवच्छेदः, धन्यः प्रशस्तः, पापक्षयश्च पुण्यबन्धश्च
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy