________________
१२- साधुसामाचारी - पञ्चाशकम्
१५८
तथाकारा भवतीति शेषः ॥ १५ ॥
गाथा - १६-१९
यस्त्वेवंविधो गुरुर्न भवति, तत्र को विधिरित्याह -
इयरम्मि विकप्पेणं, जं जुत्तिखमं तहिं न सेसम्मि । संविग्गपक्खिगे वा, गीए सव्वत्थ 'इयरेण ॥५६०॥ १२/१६
इतरस्मिन् पूर्वोक्तगुणवैकल्यवति, विकल्पेन भजनया यद् वस्तु युक्तिक्षमं प्रतीत्युपारोहि, तस्मिंस्तथाकारो, न शेषेऽयुक्तिक्षमे, संविग्नपाक्षिके वा गीते गीतार्थे सर्वत्र वस्तुनि इतरेणागीतार्थेन तथाकारः कार्य इति वर्त्तते ॥ १६॥ (१. इयरे ण अटी.)
किमित्येवमुपदिश्यत इत्याह
संविग्गोऽणुवएसं, न देइ दुब्भासियं कडुविवागं । जाणतो तम्मि तहा, अतहक्कारो उ मिच्छत्तं ॥५६१ ॥ १२/१७
संविग्नः संसारभीरुर्गुरुः, स्वयमेवानुपदेशमनुचितोपदेशं न ददाति, दुर्भाषितं दुष्टं भाषितमस्मिन्निति तं कटुविपाकं दारुणविपाकम् जानन्नवबुध्यमानः तस्मिन् गुरौ तथा तेन रूपेण । अतथाकारस्त विपरीतसामाचारीप्ररूप्ये मिथ्यात्वं वर्त्तते । तस्मात्तत्राप्यविकल्पेन तथाकारः॥१७॥
उक्तस्तथाकारः,
साम्प्रतमावश्यकस्वरूपनिरूपणायाह
कज्जेणं गच्छंतस्स गुरुणिओएण सुत्तणीईए ।
आवस्सिय त्ति णेया, सुद्धा अण्णत्थजोगाओ ॥५६२ ॥ १२/१८
कार्येण ज्ञानादिसम्बन्धेन, गच्छतः सतः साधोरिति गम्यते । गुरुनिर्देशेन गुर्वाज्ञया, सूत्रनीत्याऽऽगमन्यायेन आवश्यका ज्ञेया ज्ञातव्या । शुद्धा निरवद्या, अन्वर्थयोगादवश्यकर्तव्याऽन्वर्थसम्बन्धात् ॥१८॥
कार्येण गच्छतः इत्युक्तम्, किं पुनस्तदित्याह -
कज्जं पि नाणदंसणचरित्तजोगाण साहगं जं तु ।
जइणो सेसमकज्जं, न तत्थ आवस्सिया सुद्धा ॥५६३॥ १२/१९
कार्यमपि ज्ञानदर्शनचारित्रयोगानां साधकं यत्तु, यतेः साधोः शेषमकार्यं ज्ञानादिविरहेण । न तत्र ज्ञानादिरहितकार्ये, आवश्यका शुद्धा किन्त्वशुद्धैवाऽऽगमबाधया प्रवृत्तेः ॥१९॥