________________
गाथा - १३-१५
१२- साधुसामाचारी - पञ्चाशकम् कतिकडं में पावं, डत्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥ ५५७ ॥ १२/१३ जुग्गं ।
‘मि’इत्येकमक्षरम्, मृदुनो भावः मार्दवं क्रियारूपं विनयावनतिलक्षणं तद्भावस्तत्त्वं तस्मिन् वर्तते । ‘च्छा' इति च दोषाणां च्छादने भवति । 'मे' इति च मर्यादायां स्थितोऽहं पुनस्तदुल्लङ्घनाभावेन। ‘दु’ त्ति 'दु' इत्यक्षरं जुगुप्साऽस्य आत्मानमित्यर्थे वर्त्तते ॥१२॥
१५७
'क' इत्यक्षरं कृतं मया पापम्, न त्वकृतमित्यभ्युपगमे । 'ड' इति डिये अन्तर्भाविताप्यर्थत्वादुल्लङ्घयामि, तत्पापम् उपशमेन कोधादिप्रशमेन । एषोऽनन्तरोक्तः मिथ्यादुष्कृतपदे अक्षराणि तेषाम् अर्थोऽभिधेयः समासेन सङ्क्षेपेण, प्रत्येकमपि अक्षराणामर्थोऽस्ति, अन्यथा तत्समुदायेऽप्य-भावप्रसङ्गात्, सिकतासु तैलवत्, समुदाये त्वर्थ: प्रकट एव । मिथ्या अलीकं यन्मया कृतं मतं वा । प्रज्ञापनीयविषयं दुष्कृतं च, न सुकृतं ममैतदिति विधेयविषयं तस्मादुभयमपि सङ्गतमेव ॥१३॥
उक्त मिथ्याकारः साम्प्रतं तथाकारमाह
कप्पाकप्पे परिणिट्ठियस्स ठाणेसु पंचसु ठियस्स । संयमतवड्डगस्स उ, अविगप्पेणं तहक्कारो ॥ ५५८ ॥ १२/१४
कल्प्याऽकल्प्ययोर्वस्तुनोरथवा कल्पो द्वादशविधः, तद्विपरीतस्त्वकल्पः । सोऽपि तथैव, तयोः परिनिष्ठितः सूत्रार्थोभयपारगतः । तस्यन आस्थीयते यतिभिर्येषु तानि स्थानानि महाव्रतानि तेषु पञ्चषु स्थितस्य प्रतिष्ठितस्य । संयमश्च तपश्च संयमतपसी। अभ्यर्हितत्वात्संयमस्य पूर्वनिपातो, यथा दीक्षातपसी । ताभ्यामाढ्यः परिपूर्णः । स्वार्थिककन्प्रत्ययोपादानात्, संयमतपआढ्यकस्तस्य, तरेवकारार्थे। अविकल्पेन विकल्पाभावेन निर्विकल्पमित्यर्थः । तथाकारस्तथाकारस्तथाशब्दः प्रयोक्तव्योऽन्योऽपि तदर्थाभिधायी, शास्त्रे तथा श्रवणात्
'तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते' ।
से एवं भंते! एवं भंते!' [ श्री कल्पसूत्र - सूत्र - १४ ] एवं पदसन्दर्भात् ॥१४ ॥ क्व पुनर्विषयेऽयं कर्तव्यमित्याह -
वायणपडिसुणणाए, उवएसे सुत्तअत्थकहणाए । अवितहमेयं ति तहा, अविगप्पेणं तहक्कारो ॥५५९॥ १२/१५
वाचनायामपूर्वसूत्रोद्देशरूपायाम्, प्रतिश्रवणे च कार्याभ्युपगमविषये, उपदेशे सामान्येनैव, सूत्रार्थकथनाया सम्यक् सूत्रार्थव्याख्यायाम् अवितथमेतदिति । तथैतदिति अविकल्पेनाऽसन्देहेन ।