________________
१५६
____१२-साधुसामाचारी-पञ्चाशकम् गाथा-९-१२ ____ आज्ञाबलाभियोग, आज्ञाबलात्कारः अथवाज्ञानियोगो बलाभियोगो बलात् प्रयोगः, निर्ग्रन्थानां न कल्पते, परविषये कर्तुं विधातुम् इच्छा प्रयोक्तव्या स्वकीयेच्छा भवतामत्र वस्तुनीत्येवंरूपा, शैक्षे अचिरदीक्षिते तथा चैव रात्लिके रत्नाधिकेष्वेवेत्यर्थः ॥८॥
अत्रैव विशेषमाह - जोग्गेऽवि अणाभोगा, खलियम्मि खरंटणा वि उचिय त्ति । ईसिं पण्णवणिज्जे, गाढाजोगे उ पडिसेहो ॥५५३॥ १२/९ __ योग्येऽपि गुणवत्यपि पुरुषे अनाभोगादनुपयोगात् स्खलिते मार्गात् प्रच्युते, खरण्टणापिखिसापि उचितेत्यहव, ईषन्मनाक् प्रज्ञापनीये प्रबोधनीये, गाढायोग्ये त्वप्रज्ञापनीये प्रतिषेधः खिसाया इति गम्यते । तस्य तीव्रतरसङ्क्लेशोपपत्तेरात्महिताऽपरिज्ञानात् । तन्निमित्तकर्मबन्धभावोपपत्तेः, तस्य च परिहार्यत्वात् ।।९।।
उक्त इच्छाकारः, साम्प्रतं मिथ्याकारविषयमाह - संजमजोगे अब्भुट्ठियस्स जं किंचि वितहमायरियं । मिच्छा एतं ति वियाणिऊण तं दुक्कडं देयं ॥५५४॥ १२/१०
संयमयोगे संयमव्यापारे, अभ्युत्थितस्योद्यमवतः, यत्किञ्चिद् वितथमन्यथा आचरितं सञ्जातम्, मिथ्याऽनृतम्, मे एतदिति विज्ञाय तद् दृष्कृतं देयं मिथ्यादुष्कृतं कार्यम् ॥१०॥
ननु यत् दुष्कृतेन कर्मोपनिबद्धम्, तदनुभवनीयमेव । कस्तत्र गुण इत्याशङ्क्याह - सुद्धेणं भावेणं, अपुणकरणसंगतेण तिव्वेणं । एवं तक्कम्मखओ, एसो से अत्थनाणंमि ॥५५५॥ १२/११
शुद्धेन भावेनोपनिबद्धकर्मक्षयकरणयोग्येन, अपुनःकरणसङ्गतेन, न पुनर्मयेदं कर्तव्यमिति प्रकारान्वितेन तीव्रण उत्कृष्टेन एवं मिथ्यादृष्कृतदानात् तत्कर्मक्षयो दुष्कृतकर्मक्षयो भवतीति शेषः । एष च कर्मक्षयः, से तस्य मिथ्यादुष्कृतस्य, अर्थज्ञाने तद्वाच्यार्थपरिज्ञाने सति, तेन तदर्थोऽभिधीयते ॥११॥
['मिच्छा मि दुक्कडं' इत्येतत् प्राकृतपदमाश्रित्य-] पूर्वसूरिकृतव्याख्यया-[गाथायुगलेनाह] -
मि त्ति मिउमद्दवत्ते, छ त्ति उ दोसाण छादणे होति । मे त्ति य मेराएँ ठिओ, दु त्ति दुगुंछामि अप्पाणं ॥५६॥ १२/१२