________________
१५१
गाथा-४१-४४ ११-साधुधर्मविधि-पञ्चाशकम्
“यस्य प्रभावादाकाराः, क्रोधहर्षभयादिष। भावेषु नोपलभ्यन्ते, तद् गाम्भीर्यमुदाहृतम्" ॥१॥[ ] इत्युक्तेः । धीमन्तो बुद्धिमन्तः प्रज्ञापनीयाः सुखावबोधनीयाः महासत्त्वा अविक्लवाध्यवसायवन्तः आपत्स्ववैक्लव्यकरमध्यवसानकरं च सत्त्वम्'[ ] इत्युक्तेः ॥४०॥ उस्सग्गववायाणं, वियाणगा सेवगा जहासत्तिं । भावविसुद्धिसमेता, आणारुइणो य सम्मं ति ॥५३५॥ ११/४१
उत्सर्गापवादयोर्विज्ञाप[य]का विज्ञातारः, उत्सर्गापवादपदानां वा भूयसां सेवका अनुष्ठातारो यथाशक्ति तदनतिक्रमेण भावविशुद्धिसमेता अध्यवसायशुद्धिसमन्विताः, आज्ञारुचयश्चागमाभिलाषवन्तश्च सम्यगिति सङ्गतन्यायेन । भावविशुद्धिसमेतत्वं चैवम् -
अज्झवसायविसुद्धीविवज्जिया जे तवं विगिट्ठमवि । बाललेसा न होड़ सा केवला सुद्धी कुव्वंति ।।
[आराहणापडागा गाथा-१६ ] इत्युक्तेः ॥४१॥ सव्वत्थ अपडिबद्धा, मेत्तादिगुणणिया य नियमेण । सत्ताइसु होति दढं, इय आययमग्ग तल्लिच्छा ॥५३६॥ ११/४२
सर्वत्र द्रव्यक्षेत्रकालभावेषु, अप्रतिबद्धाः प्रतिबन्धरहिताः मैत्र्यादिगुणान्विताश्च मैत्रीप्रमोद-कारुण्य-माध्यस्थ्यगुणयुक्ताश्च नियमेन सत्त्वादिषु सत्त्वगुणाधिकक्लिश्यमानाऽविनेयेषु विषयभूतेषु यथासङ्ख्यं भवन्ति दृढमत्यर्थम्, इत्येवं भावकालसदाभावित्वाद् आयतो मोक्षस्तस्य मार्गः सम्यग्दर्शनादिरत्नत्रयरूपः । आयतो वाऽतिप्रयत्नसमेतो यो मार्गस्तल्लिप्सास्तत्पराः ॥४२॥
एवंविहा उणेया, सव्वणयमतेण समयणीतीए । भावेण भाविएहि, सइ चरणगुणट्ठिया साहू ॥५३७॥ ११/४३
एवंविधास्त्वेवंविधा एव ज्ञेया ज्ञातव्याः, सर्वनयमतेन ज्ञानक्रियान्तर्गतसर्वनयाभिप्रायेण समयनीत्यागमनीत्या, भावेन सदन्तःकरणलक्षणेन भावितैर्वासितैः पुरुषैरागमतत्त्ववेदिभिरिति यावत् । सदा सर्वकाल। चरणं चारित्रपरिणामः, गुणो ज्ञानदर्शनरूपः तयोः स्थिताश्चरणगुणस्थिताः साधवः पौरुषेयीभिर्ज्ञान-दर्शन-चारित्रशक्तिभिर्मोक्षं साधयन्ति इति निरुक्तात् ॥४३॥
नाणम्मि दंसणम्मि य, सति नियमा चरणमेत्थ समयम्मि । परिसुद्धं विण्णेयं, नयमयभेया जओ भणियं ॥५३८॥ ११/४४