SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ११- साधुधर्मविधि-पञ्चाशकम् गाथा- ४५-४८ ज्ञानेऽववोधस्वभावे, दर्शने च तत्त्वरुचिस्वभावे सति विद्यमाने नियमान्नियमेन चरणमत्र समये परिशुद्ध भाविकं विज्ञेयमवबोद्धव्यम् । नयमतभेदाद् यतो भणितमुक्तं समय एव ॥४४॥ १५२ निच्छयणयस्स चरणायविघाए नाणदंसणवहो वि । ववहारस्स उ चरणे, हयम्मि भयणा उ सेसाणं ॥५३९॥ ११ / ४५ निश्चयनयस्य चरणात्मविघाते चरणात्मनो विनाशे ज्ञानदर्शनवधोऽपि ज्ञानदर्शनापायोऽपि, व्यवहारस्य तु नयस्य, चरणे हते परिणामक्रियाभ्यां भजना [तु] शेषयोर्ज्ञान-दर्शनयोः, क्वचित् सम्भवः क्वचिन्नेति ॥४५॥ निश्चयमतमेवाह - जो जहवायं न कुणति, मिच्छद्दिट्ठी तओ हु को अण्णो ? | वड्ढेइ य मिच्छत्तं, परस्स संकं जणेमाणो ॥५४०॥ ११ / ४६ यो यथावादं यथोक्तं न करोति यथागममित्यर्थः । मिथ्यादृष्टिस्ततो हु, ततस्तु, कोऽन्यः ? स एवाऽयथागमकारी मिथ्यादृष्टिरिति निश्चयस्य गर्भः । वर्धयति च मिथ्यात्वमागमविषयं वितथत्वं परस्य शङ्कयं जनयन् 'किमेवमयं चेष्टते' यद्ययमागमः सत्यो भवति, नूनमस्याप्ययमसत्य इवाभाति तेनान्यथा चेष्टते, एवं स्फुटैव परस्य वितथत्वे शङ्का, इति निश्चयाभिप्राय: ॥ ४६ ॥ एवं च अहिनिवेसा, चरणविघाए न नाणमादीया । तप्पडिसिद्धासेवणमोहासद्दहणभावेहिं ॥५४१ ॥ ११/४७ एवं चाभिनेवेशादत्यन्ताग्रहात् चरणविघाते चरित्रपरिणामे विनाशे, न ज्ञानादयो गुणाः तत्प्रतिषिद्धमागमप्रतिषिद्धं तस्यासेवन करणम्, मोहोऽज्ञानम् अश्रद्धानमश्रद्धा तत्प्रतिषिद्धा-ऽऽसेवन-मोहाऽश्रद्धानानि तेषां भावाः सद्भावा उत्पादा वा तै[ते तथा]तै[रिति] ॥४७॥ अभिनिवेसाओ पुण, विवज्जया होंति तव्विघाऽवि । तक्कज्जुवलंभाओ, पच्छातावाइभावेण ॥५४२ ॥ ११ / ४८ अनभिनिवेशात् आग्रहाभावात्, पुनरविपर्ययात् विपर्यायाभावादविपर्यस्तमतित्वाद् भवन्ति सम्भवन्ति । तद्विघातेऽपि चरणविघातेऽपि ज्ञानादय इति सम्बन्ध्यते । तत्कार्योपलम्भाद् ज्ञानदर्शनकार्योपलम्भात्, पश्चात्तापादिभावेन पश्चात्तापप्रतीकारप्रायश्चित्तादिसद्भावेन ॥४८॥ "
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy