________________
१५०
११- साधुधर्मविधि-पञ्चाशकम्
गाथा - ३७-४०
अत्रैव व्यतिरेकमाह -
जे उ तह विवज्जत्था, सम्मं गुरुलाघवं अयाणंता । सग्गाहा किरियरया, पवयणखिसावहा खुद्दा ॥५३१॥ ११/३७
ये तु ये पुनः तथा तेनात्माभिमानप्रकारेण विपर्यस्ता विपरीतमतयः, सम्यग्न्यायेन गुणानां गौरव दोषाणां च लाघवमजानन्तः स्वरूपेणापश्यन्तः स्वग्रहात् स्वाभिनिवेशात् क्रियारताः तथाविधबाह्यक्रियासक्ताः प्रवचनखिसावहास्तत्पूर्वापरानालोचनेन तन्निन्दाहेतवः क्षुद्रा: कृपणस्वभावा अनुदाराशया इत्यर्थः ॥३७॥
पायं अभिण्णगंठी, तमाउ तह दुक्करं पि कुव्वंता ।
बज्झा व ण ते साहू, धंखाहरणेण विण्णेया ॥ ५३२॥ ११ / ३८
प्रायो बाहुल्येनाभिन्नग्रन्थयो ऽकृतग्रन्थिभेदाः तमसोऽज्ञानात् तथा दुष्करमप्यानुष्ठानं तपःप्रभृति कुर्वन्तः सन्तो बाह्या इव परतीर्थिका इव, न ते साधवः साधुगुणाप्रतिष्ठितत्वात् । ध्वाङ्क्षाहरणेन ध्वाङ्क्षोदाहरणेन विज्ञेया ज्ञातव्यास्तच्चेदम् -
दंखा वावीए तड़े विरला ते उण तिसाए अभिभूया ।
पुरओ मायासरदंसणेण तह संपयट्टंति ॥ [ उपदेशपद-गाथा-८२४ ] सद्वस्तुपरित्यागेनासद्वस्त्वभिलाषिणो ध्वाङ्क्षप्रायाः सत्साधवो न भवन्तीत्यंवसेयम् ॥३८॥ सिं बहुमाणेणं, उम्मग्गऽणुमोयणा अणिट्ठफला । तम्हा तित्थगराणाठिएसु जुत्तोऽथ बहुमाणो ॥ ५३३॥ ११/३९
तेषां तथाविपर्यस्तानां बहुमानेनान्तरप्रीत्या उन्मार्गानुमोदनोन्मार्गानुमतिः, [अनागमिकाचारानुमतिः अटी. ] अनिष्टफलाऽनभिप्रेतफला तत् तस्मात् तीर्थकराज्ञास्थितेषु भ[ग]वदाज्ञाव्यवस्थितेषु साधुषु युक्तः सङ्गतः अत्राधिकारे बहुमानो बहुमतत्वम् ॥३९॥
पुण समिया गुत्ता, पियदढधम्मा जिइंदियकसाया ।
गंभीरा धीमंता, पण्णवणिज्जा महासत्ता ॥ ५३४ ॥ ११/४०
ते पुनः साधवः समिताः पञ्चभिः समितिभिः गुप्तास्त्रिसृभिर्गुप्तिभिः प्रियदृढधर्माः प्रियधर्माणो दृढधर्माणश्च जितेन्द्रियकषायाः जितः स्पर्शन- क्रोधादय गम्भीराः परैरलब्धमध्याः, विकारैरक्षोभ्या वा[हर्ष-दैत्याविभावाः अटी. ]