________________
गाथा - ३४-३६
११- साधुधर्मविधि-पञ्चाशकम्
१४९
तत्तस्माद् गीते गीतार्थे इदं खल्विति खलुशब्दस्यावधारणत्वाद् गीतार्थ एव। तस्मादात्मनः अन्यो यो गीतार्थस्तस्य लाभः प्राप्तिः तदन्तरायविषयं तु तदभावविषयमेव सूत्रम्, एकोऽपीत्यादिरूपम् अवगन्तव्यं विज्ञेयं प्रतिनियतविषयमेव, निपुणैः पूर्वापरवेदिभिः तन्त्रयुक्त्याऽऽगमयुक्त्या ॥ ३३ ॥ (१. ति. - अटी.)
विषयविभागेन सूत्रार्थो व्यवस्थापनीयोऽन्यथा -
जंजह सुत्ते भणियं, तहेव जड़ तं वियालणा णत्थि । किं कालियाणुओगो, दिट्ठो दिट्ठिप्पहाणेहिं ? ॥५२८॥ ११/३४
यद् यथा सूत्रे दशवैकालिकादौ भणितमुक्तं तत् तथा श्रौतेनार्थेन यदि तद्विचारणा नास्ति विषयविभागव्यवस्था न विद्यते । किमिति कुतो हेतोर्न कुतश्चिदिति भावः । कालिकमेकादशाङ्ख्पं तस्यानुयोगा व्याख्याक्रमो दृष्टोऽनुमतो दृष्टिप्रधानैर्दृष्टिवादप्रवरैः दर्शनप्रधानैर्वा । तस्माद्विचार्य सूत्रं पौर्वापर्येण विषये व्यवस्थापनीयम् ॥३४॥
गुरुगुणरहितस्तु गुरुर्न गुरुरिति यत् [११/२४ गाथायाम् ] प्रागुक्तं तत्स्वरूपकथनायाह गुरुगुणरहिओ वि इहं, दट्ठव्वो मूलगुणविउत्तो जो ।
न उ गुणमेत्तविहीणो त्ति चंडरुद्दो उदाहरणं ॥५२९॥ ११/३५
गुरुगुणरहितोऽपि गुरुदृष्टव्यो विज्ञेयः मूलगुणर्महाव्रतरूपः वियुक्तो विरहितो यो न तु गुणमात्रेण विशिष्टक्रोधनिग्रहादिना विहीन इति विरहितः, चण्डरुद्राचार्य उदाहरणं प्रस्तुतेऽर्थे निदर्शनं समयप्रसिद्धम् । स हि किल न बहु समीक्षते विधेयाविधे[य] योर्द्रागेन [व] प्रवृत्तेर्निवृत्तेश्च अधिकतरगुणपुरुषालाभे च गुरुभिस्तस्यैव कालाद्यपेक्षया आश्रयणात् साधुभिश्च तद्बहुमानात्
॥३५॥
तथा चाह -
-
-
जे इह होंति सुपुरिसा, कयण्णुया न खलु तेऽवमण्णंति । कल्लाणभायणत्तेण गुरुजणं उभयलोगहियं ॥५३०॥ ११/३६
ये इह लोके भवन्ति सुपुरुषाः सत्पुरुषाः कृतज्ञाः कृतवेदिनः, न खलु नैव ते अवमन्यन्ते अवज्ञयन्ति कल्याणभाजनत्वेन कल्याणपात्रतया गुरुजनं पूज्यजनम्, उभयलोकहितं इहपरलोकाविरोधिनम् ॥३६॥