________________
१४८
११-साधुधर्मविधि-पञ्चाशकम् गाथा-२८-३३ __ जाताजातसमाप्ताऽसमाप्तकल्पानामागमिकं शब्दप्रवृत्तिनिमित्तं लक्षणमाह - गीयत्थो जायकप्पो, अग्गीओ खलु भवे अजाओ उ। पणगं समत्तकप्पो, तदूणगो होइ असमत्तो ॥५२२॥११/२८
गीतार्थविषयत्वाद् गीतार्थो जातकल्पोऽगीतः खल्वगीतार्थविषयो भवेद् अजातस्तु पञ्चक साधूना समाप्तकल्पस्तदूनको भवति असमाप्तः ॥२८॥
उउबद्धे वासासु उ, सत्त समत्तो तदूणगो इयरो । असमत्ताजायाणं, ओहेण ण किंचि आहव्वं ॥५२३॥ ११/२९
ऋतुबद्धे तावत् प्रागुक्तम् । वर्षासु तु वर्षासमये सप्त समाप्तस्तदूनकस्त्वितरः, असमाप्ताजातयोरोघेन किञ्चिदाभाव्यम्।यदागमविहितं तन्नास्तीति भावः ॥२९॥ [१. होइ- अटी.] एत्तो पडिसेहाओ, सामण्णणिसेहमोऽवगंतव्यो । एएसि अतो वि इमं, विसेसविसयं मुणेयव्वं ॥५२४॥ ११/३०
अतः प्रतिषेधात् सामान्यनिषेध एवावगन्तव्यो विहारस्य एतेषामगीतार्थानाम् अतोऽपीदमेकाकि विहारप्रतिपादकसूत्रं विशेषविषयं मन्तव्यं विज्ञेयम् ॥३०॥
एगागियस्स दोसा, इत्थीसाणे तहेव पडिणीए। भिक्खविसोहि महव्वय, तम्हा सबितिज्जए गमणं ॥५२५॥ ११/३१
एकाकिनः सतो विहरतः दोषाः स्त्री श्वा तथैव प्रत्यनीकः, स्त्रियाः शुनः प्रत्यनीकाच्च। भिक्षाविशुद्धौ गृहत्रयादेकदा भिक्षानयने, महाव्रतेषु च पालनीयेषु सर्वेषु एवाहिंसादिष्वेकाकिनो दोषाः । सहाय समन्वितस्य तु तल्लज्जयापि पालनं सम्भवति, तस्मात्सद्वितीये गमनं विहारः ॥३१॥
गीयत्थो य विहारो, बीओ गीयत्थमीसओ भणिओ ॥ एत्तो तइयविहारो, नाणुण्णाओ जिणवरेहिं ॥५२६॥ ११/३२
गीतार्थश्च विहार एक इति गम्यते, द्वितीयो गीतार्थमिश्रको भणितो गीतार्थेतररूप [गीतार्थः, तदेतरश्च] उक्तः । आभ्या तृतीयविहारो नानुज्ञातो जिनवरैः ॥३२॥
ता गीयम्मि इमं खलु, तदण्णलाभंतरायविसयं तु । सुत्तं अवगंतव्वं, णिउणेहिं तंतजुत्तीए ॥५२७॥ ११/३३