________________
गाथा - २४-२७
११- साधुधर्मविधि-पञ्चाशकम्
गुरुगुणरहिओ उ गुरू, न गुरु विहिचायमो उ तस्सिट्ठो । अण्णत्थ संकमेणं, ण उ एगागित्तणेणं ति ॥५९८॥ ११/२४
गुरुगुणा ज्ञानक्षान्त्यादयस्तद् रहितस्तु तद्विकलः पुनः गुरुर्न गुरुर्न तथाविधगौरवार्हः, विधित्यागस्तु विधिना त्यागः पुनस्तस्येष्टो न त्वविधिना विधित्यागः [तेन ] शास्त्रोक्तदोषप्रसङ्गात् स्वयमगुणभाजनत्वापत्तेश्च, केन पुनर्विधिना त्याग इष्यते गुरोः ? अन्यत्र गच्छान्तरे पुरुषान्तरे वा सङ्क्रमेण सङ्क्रान्त्याश्रयणे न त्वेकाकित्वेनेति न तु गुरुं परित्यज्यैकाकिना विहर्तव्यमित्यनेन
॥२४॥
जंपियन या लभेज्जा, एक्कोऽविच्चादि भासियं सुत्ते । एयं विसेसविसयं, णायव्वं बुद्धिमंतेहिं ॥५१९ ॥ ११/२५
१४७
यदपि च न लभेतेत्युपलक्षणमिदं ण या लभेजा णिउणं सहायं गुणाहियं वा गुणओ समं वा इत्यस्य 'एकोऽपीत्यादि 'भाषितं सूत्रे दशवैकालिकश्रुतस्कन्धे - 'एक्को वि पावाइं अणायरंतो विहरेज्ज कामेसु असज्जमाणो'। एतद्विशेषविषयं ज्ञातव्यं बुद्धिमद्भिः विचारकुशलैः ॥२५॥
पावं अणायरंतो, तत्थुत्तं ण य इमं अगीयस्स ।
अण्णाणी किं काहीच्चादीसुत्ताउ सिद्धमिणं ॥५२०॥ ११/२६
पापमनाचरन् वर्जयन् तत्रोक्तं सूत्रम् । न चेदं पापपरिवर्जनम्, अगीतस्याऽगीतार्थस्य सम्भवति ज्ञानविकलत्वाद्, एतदेव समर्थयते । ' 'अज्ञानी किं करिष्यति' [ दशवैकालिकसूत्रे ] इत्यादिसूत्रात् सिद्धमिद पापपरिवर्जनप्रतिषेधरूपं दूषणम् ॥२६॥
पुनरपि विशेषविषयत्वोपदर्शनायाह -
जाओ य अजाओ य, दुविहो कप्पो उ होइ णायव्वो । एक्क्को वि यदुविहो, समत्तकप्पो य असमत्तो ॥ ५२१॥ ११/२७
जातश्च स्वनिष्पन्नः अजातश्चानिष्पन्नप्रायः द्विविधः कल्पस्तु भवति ज्ञातव्यः । एकैकोऽपि च द्विविधा द्विभेदः । समाप्तकल्पः परिपूर्णः चशब्दो भिन्नक्रमे असमाप्तश्चेत्यत्र द्रष्टव्यः, असमाप्तश्चापरिपूर्णः ॥२७॥
१. न वा लभेज्जा निउणं सहायं; गुणाहिअं वा गुणओ समं वा ।
इक्को वि पावाइं विवज्जयंतो; विहरिज्ज कामेसु असज्जमाणो ॥ [ दश० द्वितीया चूलिका गा. १०]
२. पढमं नाणं तओ दया, एवं चिट्ठइ सव्व-संजए ।
अन्नाणी किं काही ? किंवा, नाहीइ छेअ-पावगं ? ॥ [ दश० अध्य० ४ गा० १०]