________________
गाथा-३५-३८ १०-उपासकप्रतिमा-पञ्चाशकम्
१३७ __ यतिपर्युपासनपरः साधुसेवनपरः, सूक्ष्मपदार्थेषु बन्ध-मोक्षादिषु नितान्तलिप्सो नित्यतत्परः पूर्वोदितगुणयुक्तः प्रागभिहितगुणान्वितो दश मासान्, यावदिति गम्यते, 'कालमासेन कालपरिमाण विशेषरूपेण समयप्रसिद्ध्या चैतदभिहितं- 'दुविहा मासा पण्णत्ता धण्णमासा य कालमासा य॥३४॥ (१. कालमाणेणं कालमानेन - कालप्रमाणापेक्षयेत्यर्थः । अ. टी.)
उक्ता दशमी, एकादशमीमाह - खुरमुंडो लोएण व, रयहरणं उग्गहं व घेत्तूण । समणब्भूओ विहरइ, धम्मं काएण फासंतो ॥४७९॥ १०/३५
क्षुरमुण्ड पूर्वोक्तः । लोचेन वा मुण्ड इति गम्यते । रजोहरणं जीवरक्षाहेतुरूपम् । अवग्रहं च प्रतिग्रहकं पात्रमित्यर्थः । गृहीत्वोपादाय धर्मोपकरणबुद्ध्या, श्रमणभूतः श्रमणकल्पो विहरति चेष्टते । धर्मं श्रमणोपासकधर्मम् । कायेन शरीरेण स्पृशन्नासेवमानः पालयन्निति यावत् ॥३५॥
अस्यैव विहारविधिमाह - ममकारेऽवोच्छिण्णे, वच्चति सण्णायपल्लि टुं जे । तत्थ वि जहेव साहू, गेण्हति फासुं तु आहारं ॥४८०॥ १०/३६
ममकारे ममत्वे अव्यवच्छिन्नेऽनपगतेऽप्रच्युते, व्रजति सज्ञातपल्लिं स्वजननिवासभूमि द्रष्टुं निरीक्षितुम् । जे इति निपातः । तत्रापि स्वजनपल्यां व्यवस्थितः सन् यथैव साधुर्गृह्णाति उपादत्त । प्रासुं प्रासुकं निर्जीवं पुनराहारमशनादिकम् ॥३६॥
पुव्वाउत्तं कप्पति, पच्छाउत्तं तु ण खलु एयस्स । ओदणभिलिंगसूवादि सव्वमाहारजायं तु ॥४८१॥ १०/३७ पूर्वायुक्तंपूर्वकल्पितं स्वार्थं कृतमित्यर्थः तत् कल्पते। पश्चादायुक्तं [तु]पश्चात्कृतं पुनस्तदर्थनिष्पादितमित्यर्थः । न खल्वेतस्य श्रमणभूतस्योदनश्च भिलिङ्गसूपो मसूरसूपश्च तावादी यस्य तद्,ओदनभिलिङ्गसूपादि । सर्वमाहारजातं तु प्रसिद्धम् । यत उक्तं-कप्पड़ से पुवाउत्ते चाउलोयणे णो खलु पच्छाउत्तेभिलिङ्गसुवे [श्री कल्पसूत्रे सूत्र-२६६] ॥३७॥
एवं उक्नोसेणं, एक्कारस मास जाव विहरेइ । एगाहादियरेणं, एवं सव्वत्थ पाएणं ॥४८२॥ १०/३८
एवमुक्तनीत्योत्कर्षेणायुर्व्याघाताभावे एकादश मासान् यावद्विहरति । एकाहादि एकंच तदहश्च एकाहमेकदिवसः, स आदिर्यस्य तत्तथा । इतरेण जघन्येन एवं [एतच्च अटी.] सर्वत्र
12