SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ विक. पुनर्भवति विजयः ।।३ १३६ १०-उपासकप्रतिमा-पञ्चाशकम् गाथा-३०-३४ बहुधनः सन्तुष्टो वा स्वल्पद्रव्योऽपि सन्तोषवान् एष प्रेष्यारम्भवर्जकः पुनर्भवति विज्ञेयः ॥२९॥ किमिति महान्तमारम्भं न कारयतीत्याह - निक्खित्तभरो पायं, पुत्तादिसु अहव सेसपरिवारे । थेवममत्तो य तहा, सव्वत्थ वि परिणओ नवरं ॥४७४॥ १०/३० निक्षिप्तभरः समर्पितभरः प्रायो बाहुल्येन पुत्रादिषु पुत्रपौत्रप्रभृतिषु अथवा शेषपरिवारे तद्व्यतिरिक्त-योग्यपरिवारे स्तोकममत्वश्च तथा सर्वत्रापि गृहक्षेत्रवनादौ, परिणतो परिणतः परिणतबुद्धिः नवर केवलम् ॥३०॥ लोगववहारविरओ, बहुसो संवेगभावियमई य । पुव्वोदियगुणजुत्तो, णव मासा जाव विहिणा उ ॥४७५॥ १०/३१ लोकव्यवहारविरतो लोकव्यवहारनिवृत्तो धर्मव्यवहार एव भूयसा स्थितः । बहुशोऽनेकशः संवेगभावितमतिश्च।पूर्वोदितगुणयुक्तः पूर्वाभिहितप्रतिमागुणान्वितो नव मासान् यावद्विधिना तु शास्त्रोक्तविधिनैव ॥३१॥ उक्ता नवमी साम्प्रतं दशमीमाह - उद्दिट्टकडं भत्तं पि वज्जती किमय सेसमारंभं ? । सो होइ उ खुरमुंडो, सिहलिं वा धारती कोई ॥४७६॥ १०/३२ उद्दिष्टकृतमुद्दिश्य कृतं भक्तमप्यशनाद्यपि वर्जयति किमुत शेषमारम्भं सावद्यम्, स दशमप्रतिमाव्यवस्थितो भवत्येव क्षुरमुण्डो मुण्डितशिरा, शिखां वा धारयति कश्चित् ।।३२॥ जं णिहियमत्थजायं, पुट्ठो णियएहिं णवरं सो तत्थ । जइ जाणइ तो साहे, अह ण वि तो बेइ ण वि जाणे ॥४७७॥ १०/३३ यं निहितं निक्षिप्तं भूम्यादिषु अर्थजातम् । पृष्टोऽभिहितः सन् निजकैः स्वजनैः नवरं स प्रतिमावान् । तत्रार्थव्यतिकरे यदि जानात्यर्थजातम्, ततः साधयति कथयति । तेषां धर्मानुपालनार्थम् । तेन विना धर्मव्यवहारक्षतिप्रसङ्गात् । अथापि न जानाति ततो ब्रवीति न जाने नाहं जानामि ॥३३॥ कीदृक् तस्यामयमित्याह - जतिपज्जुवासणपरो, सुहुमपयत्थेसु णिच्चतल्लिच्छो । पुव्वोदियगुणजुत्तो, दस मासा 'कालमासेणं ॥४७८॥ १०/३४
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy