________________
गाथा-२६-२९ १०-उपासकप्रतिमा-पञ्चाशकम्
१३५ कादिग्रहः । स्वादिमे स्वाद्ये, अशेषं सकलं सचित्तं वर्जयतीति सम्बन्धः । शेषपदसमायुक्तः शेषगुणाभिधायिपदसमन्वितः । यावन्मासान् सप्त विधिपूर्वं विहितन्यायेन ॥२५॥
उक्ता सप्तमी अष्टमीमाह - वज्जइ सयमारंभं, सावज्जं कारवेइ पेसेहिं । पुव्वप्पओगओ च्चिय, वित्तिणिमित्तं सिढिलभावो ॥४७०॥ १०/२६
वर्जयति स्वयमारम्भं सावधं सपापम्, कारयति प्रेषैः प्रयोक्तृतया पूर्वप्रयोगत एव पूर्वनियुक्तव्यापारादेव वृत्तिनिमित्तं वर्तनोपायनिमित्तं शिथिलभावः स्वयं शिथिलाध्यवसायः ॥२६॥ ___ ननु स्वयमारम्भपरिहारः (रे) किमर्थमुद्य[त]ते । यावता स्वयंकरणे प्रयत्नः सम्भवति, न परेषाम्, तत् स्वयंकरणमेव युक्ततरं लक्ष्यते । नैष दोषो, न ह्यसौ पूर्वमारम्भं कारयति । केवलं पूर्वप्रवृत्तं प्रेष्यविषयमेव नियमयति । प्राक्तनं स्वयमपि कृतवान्, (वन्तं) न(नुः)पुरुषादिदानी स्वयं वर्जयतीत्यभिप्रायवान् गुणोपदर्शनायाह - निग्घिणतेगंतेणं, एवं वि हु होइ चेव परिचत्ता । एद्दहमेत्तोऽवि इमो, वज्जिज्जंतो हियकरो उ ॥४७१॥१०/२७ निघृणता निष्करुणता एकान्तेनैवमपि स्वयमकरणेऽपि हुर्वाक्यालङ्कारे भवत्येव परित्यक्तोत्सृष्टा एवावन्मात्रोऽप्ययमारम्भः स्वयंकरणरूपः वय॑मानो हितकरस्तु हितकर एव श्रेयस्कर एव ॥२७॥
अत्रैव हेतुमाह - भव्वस्साणावीरियसंफासणभावतो णिओगेणं । पुव्वोइयगुणजुत्तो, ता वज्जति अट्ठ जा मासा ॥४७२॥ १०/२८
भव्यस्य योग्यस्य, आज्ञावीर्ययोः संस्पर्शनं तद्भावतो नियोगेन नियमेनारम्भो, वर्ण्यमान, इयानपि हितकरः । एवं हि कुर्वताज्ञा संस्पर्शिता भवति वीर्यं च । पूर्वोदितगुणयुक्तः पूर्वप्रतिमागुणान्वितः तावद् वर्जयत्यारम्भमष्ट (ष्टौ )यावन्मासान् ॥२८॥
उक्ता अष्टमी, अधुना नवमीमाह - पेसेहि वि आरंभं, सावज्जं कारवेइ णो गुरुयं । अत्थी संतुट्ठो वा, एसो पुण होति विण्णेओ ॥४७३॥१०/२९ प्रेषैरपि प्रेषणीयैर्भूत्यैरपि आरम्भंसावधं कारयति।नो नैव गुरुकं महान्तम् अर्थी अर्थयति