________________
१३४
१०-उपासकप्रतिमा-पञ्चाशकम् गाथा-२१-२५ ब्रह्माब्रह्मचर्यम् एकान्ततस्त्वेकान्तेन रात्रावपि स्थिरचित्तः स्थिरधीः ॥२०॥ सिंगारकहाविरओ, इत्थीए समं रहम्मि नो ठाइ । चयइ य अतिप्पसंगं, तहा विहूसं च उक्कोसं ॥४६५॥ १०/२१
श्रृङ्गारकथाविरत उज्वलवेषादिकथानिवृत्तः स्त्रिया समं सार्धं रहस्येकान्ते न तिष्ठति नास्ते त्यजति चातिप्रसङ्गमतिसम्पर्कमालापादिकम्, तथा विभूषां वाऽलक्रियां चोत्कृष्टामुत्कर्षवतीम् ॥२१॥
एवं जा छम्मासा, एसोऽहिगओ उ इहरहा दिटुं । जावज्जीवं पि इमं, वज्जइ एयम्मि लोगम्मि ॥४६६॥ १०/२२
एवमुक्तनीत्या यावत्षण्मासानेषोऽब्रह्मपरिहारप्रतिष्ठितःअधिकृतस्त्वधिकृत एव इतरथाऽन्यथा यावज्जीवमपीदमब्रह्म वर्जयत्येतस्मिन् लोके मनुष्यलोक इत्यर्थः ॥२२॥
उक्ता षष्ठी, सप्तमीमाह - सच्चित्तं आहारं, वज्जइ असणादियं णिरवसेसं । असणे चाउलउंबिगचणगादी सव्वहा सम्मं ॥४६७॥ १०/२३
सचित्तमाहारं वर्जयत्यशनादिकं चतुर्भेदं निरवशेषं सकलम् अशनेऽशनविषये तण्डुलोम्बिकाचणकादि स्वभावत एवायमुपनतमपि सर्वथा सर्वेः प्रकारैः सम्यग् न्यायेन न च स लोलुपतया, स्वयमेव विध्वंस्य भुङ्क्ते सचित्तापरिहारप्रसङ्गात् । इयं च स्वभाविकेष्वचित्तेषु लोकव्यवहारपतितेषु च सचित्तवर्जिनः प्रतिमावतो भावदोषो वक्ष्यः ॥२३॥
पाणे आउक्कायं, सचित्तरससंजुअं तहऽण्णंपि । पंचुंबरिकक्कडिगाइयं च तह खाइमे सव्वं ॥४६८॥१०/२४
पाने पानाहारे अप्कार्य व्यवहारसचित्तं सचित्तरससंयुतम् । तथाऽन्यदप्यामफलसम्भवं पानाहारं वर्जयतीति सम्बन्धः । पञ्चोन्दुम्बरी प्रसिद्धा । कर्कटिका लोकप्रसिद्धा एव फलरूपा। आदिशब्दाद् दाडिमादिग्रहः, सा आदिर्यस्य तत्तथा, तथा खादिमे खाद्ये सर्वं निरवशेषम् ॥२४॥ दंतवणं तंबोलं, हरेडगादी य साइमे सेसं । सेसपयसमाउत्तो, जा मासा सत्त विहिपुव्वं ॥४६९॥ १०/२५ दन्तवनं दन्तकाष्ठं दन्तशोधनम् । ताम्बूलं पत्ररूपं, हरीतक्यादि च, आदिशब्दादामल