SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ गाथा-१७-२० १ ०-उपासकप्रतिमा-पञ्चाशकम् दुष्प्रत्यवेक्षितोच्चारणप्रश्रवणभूमिं च विवर्जयति । सम्यक् च क्रियाभावाभ्याम् अननुपालनमपरिपालनम् आहारादिषुएतस्मिन् पोषधे चतुर्विधेऽपि सामायिक-पोषधयोः प्रतिदिनानुष्ठेयत्वेन स्वल्पकालयोव्रतान्तर्गतत्वेऽपि सामायिक-पोषधप्रतिमयोः पुनरूपादानं बहुतरकालावस्थानप्रतिपादनार्थं यावज्जीवसम्भवोपदर्शनार्थं चाविरुद्धमत एव केषुचित् प्रकरणान्तरेषु महती योग्यता वर्ण्यते । अभेदे तु योग्यताविशेषोपादानं न स्यात् ॥१६॥ उक्ताश्चतस्रः प्रतिमाः, साम्प्रतं पञ्चमीमाह - सम्ममणुव्वयगुणवयसिक्खावयवं थिरो य नाणी य । अट्ठमिचउद्दसीसुं, पडिमं ठाएगराईयं ॥४६१॥ १०/१७ सम्यगवैपरीत्येन अणुव्रतगुणपदशिक्षापदवान् स्थिरश्च धीरश्च ज्ञानी च सम्यग्ज्ञानसम्पन्नः अष्टमी-चतुर्दश्योरूपलक्षणत्वात्पर्वदिवसेषु प्रतिमां कालाभिग्रहरूपां तिष्ठत्यनुतिष्ठत्यासेवते, एकरात्रिकी सर्वरात्रिकीमित्यर्थः ॥१७॥ असिणाणवियडभोई, मउलियडो दिवसबंभयारी य । रत्तिं परिमाणकडो, पडिमावज्जेसु दियहेसु ॥४६२॥ १०/१८ न विद्यते विवक्षितकालावधि यावत् स्नानं शरीरप्रक्षालनमस्येति-अस्नानः । विकटं प्रकटं भोक्तुं शीलमस्येति विकटभोजी विकृतभोजी वा । प्राकृते पूर्वापरनिपातोऽतन्त्रमिति कृत्वा कृतमौलिः कृतवस्त्रमुकुटो विहितशिरोवेष्टन इत्यर्थः । दिवसं सकलं यावत् ब्रह्मचारी च दिवसब्रह्मचारी, रात्रौ कृतपरिमाणः कृतकालाभिग्रहविशेषः प्रतिमावर्जेषु दिवसेषु सर्वेष्वेव ॥१८॥ झायइ पडिमाएँ ठिओ, तिलोगपुज्जे जिणे जियकसाए । णियदोसपच्चणीयं, अण्णं वा पंच जा मासा ॥४६३॥ १०/१९ ध्यायति चिन्तयति मनसा प्रतिमायां प्रतिमादिवसे स्थितस्त्रिलोकपूज्यान लोकत्रयपूज्यान् जिनान् भगवतो जितकषायान् जितक्रोधादीन् जित[ निज दोषप्रत्यनीकं स्वकीयबाधकरागादि-दोषप्रतिपक्षभूतम् अन्यद् वा वस्तु पञ्च यावन्मासान आप्रतिमापरिसमाप्तेः सर्वदिवसेषु रात्र्यौ ध्यानं कुर्यादितिभावः ॥१९॥ उक्ता पञ्चमी, षष्ठीमाह - पुव्वोइयगुणजुत्तो, विसेसओ विजियमोहणिज्जो य ।। वज्जइ अबंभमेगंतओ उ राई पि थिरचित्तो ॥४६४॥ १०/२० पूर्वोदितगुणयुक्तः पूर्वप्रतिमागुणसमन्वितः विशेषतो विशेषेण विजितमोहनीयश्च वर्जयत्य
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy